कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संस्त्याय

saṃstyāyaपुं · masc.

In 12 kośas: 7 synonym verses, 6 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.79 · p. 39
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.291 · p. 35
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.38 · p. 12
अध्यानिसंभ्यो वासः स्याद्विश्रामोवसथाश्रयौ ।आवसथ्योऽपि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.32 · p. 122
वासो निवासो निलयो निवेशःक्षयो निकाय्यावसथाश्रयाश्च ।प्राणन्त(?) आवास इहा[9a]लयः स्यात्संस्त्याय उक्तोऽत्र गृहा नृभूम्नि ॥ ३२ ॥
उपजातिःmetre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.272 · p. 38
अगारं शरणं पस्त्यं संस्त्यायावसथावपि ।स्थानौकसी गृहा भूम्नि क्षयकूटौ तथा कुलम् ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1698 · p. 273
स्थानञ्च निलयो पस्त्यं संस्त्यायः शरणं सभा ।उदवसितमाऽऽवासो भवनं वसतिस्तथा ॥ १६९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.843 · p. 106
गृहाः पुंभूम्नि संस्त्यायो निकाय्यो निलयालयौ ।क्षयो वासः कूटमस्त्री शालाथ मुनिवेश्मनि ॥ ८४३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.152
सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ।विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः ॥ १५२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.30 · p. 155
संस्त्यायः संनिवेशे स्यात्संघाते च प्रकीर्तितः ।उपायः सामभेदादावुपायः स्यादुपागतिः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.65 · p. 296
पर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथासंस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ ।अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं ।शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.230 · p. 31
संस्त्यायस्तु गृहे चैव सन्निवेशसमूहयोः ।रभसो विस्तृतौ चाथ सं(स्ता?स्त)रः सुस्तरेऽध्वरे ॥ २३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.50 · p. 262
पुमान् सिंहे मधुकरे शिलातुल्ये तु वाच्यवत् ।संस्त्यायः पुंसि विस्तारे संस्थानसन्निवेशयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.78 · p. 245
सविता सारथौ रुद्रे पितर्यर्के सुजातिभिः ।सन्निवेशे गणे गेहे संस्त्यायः संग्रहाः पुनः ॥ ७८ ॥
अनुष्टुप्