त्रेता
tretāस्त्री · fem.In 14 kośas: 19 synonym verses, 8 as a nānārtha head word.
इदमग्नित्रयं त्रेता प्रणीतः संस्कृतोऽनलः ॥ ८२६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
genderस्त्रीfem.
अग्नित्रयं त्रयी त्रेता होमभस्म तु वैष्टुभम् ।रक्षा भूतिर्विभूति स्त्री क्लीबे भसितभस्मके ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
आर्क्षो वराङ्गै(३२४)र्गौरोपि पतङ्गैः (३६१) पञ्चधेति च ।कृतं सत्ययुगं क्लीबे त्रेताग्नेयी स्त्रियामुभे ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिवृता तृणता त्रेता मार्जिता सह मुक्तया ।लूता लता च लिखिता वार्ता सीता सिता तथा ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
[33b]त्रेता स्त्री द्वापरः पुंसि कलिस्तिष्यश्चतुर्युगी ।मनुष्याणां सुराणां तु तयैकं युगमुच्यते ॥ ११० ॥
अनुष्टुप्
genderस्त्रीfem.
अग्नित्रयमिदं त्रेता प्रणीतः [100a] संस्कृतोऽनलः ।समूह्य-परिचाय्योपचाय्या अग्निधृतिस्थले ॥ ५१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
त्रेता गीता सीता लूतामुक्ता वार्ता वर्ती रीतिः ।शुक्तिः पङ्क्तिर्जातिर्गुप्तिःप्रातिः स्यूतिः कृत्तिर्भित्तिः ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः ।भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् ।विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥
metre not recognised
genderस्त्रीfem.
सीता गीता लता त्रेता लूतानन्तामृता मता ।प्रसृता मार्जिता मुक्ता वार्ता कन्था कथा प्रथा ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
दक्षिणो गार्हपत्यश्चाऽऽहवनीयस्त्रयोऽग्नयः ।इदमग्नित्रयं विश्वे त्रेता हि कथ्यते बुधैः ॥ १३७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable)
genderस्त्रीfem.
युगांशको मासमानः कालग्रन्थिश्च तर्वटः ।सत्यं त्रेता द्वापरश्च कलिरेवं चतुर्युगम् ॥
अनुष्टुप्
genderस्त्रीfem.
कृतं सत्यं सत्ययुगं त्रेता यज्ञियमेव च ।द्वापरः पार्थनीयश्च (?) झर्झरः कर्मजः कलिः ॥
अनुष्टुप्
genderस्त्रीfem.
इदमग्नित्रयं त्रेता युगपत्तु निगद्यते ।संस्कृताग्निः प्रणीतः स्यान्मन्त्रसंस्कृतवह्निषु ॥
अनुष्टुप्
genderस्त्रीfem.
हव्यवाहनशंस्याहवनीयाः पूर्वपावके ।सभ्यावसथ्यौ तत्पूर्वावग्नी त्रेतानलत्रये ॥ १०६ ॥
अनुष्टुप्
genderस्त्रीfem.
कृतं सत्ययुगं त्रेताऽग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्मयुगं पापं तु पातकम् ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
वत्सवायव्यसौर्याश्च वर्षोऽस्त्री स्त्री शरत् समाः ।कृतं सत्ययुगं सौम्यं त्रेताग्नेयी विसर्जिका ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
कृतं त्रेता द्वापरं च कलिश्चेति यथाक्रमम् ।जायाजीवस्तु शैलूषः शैलाली भरतो नटः ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्याप्तेऽपि कृतं स्यादाहवनीयादिषु त्रिषु त्रेता ।सन्देहेऽपि द्वापरमाहुः कलहेऽपि कलिशब्दम् ॥ ७८९ ॥
आर्या
meaningsआहवनीयादि
त्रेता युगेऽग्नित्रितयेऽपि योषित्लता तु शाखाहरिताफलीषु ।ज्योतिष्मतीस्पृग्व्रततीषु वल्ली-कस्तूरिकायामतिमुक्तकेऽपि ॥ ४२ ॥
उपजातिः
सौहित्ये चाप्यथ त्रेता गार्हपत्यादिकत्रये ।द्वितीये च युगेऽथ स्याद् दीक्षा यजनपूजयोः ॥ ४७ ॥
अनुष्टुप्
स्यन्दने घोटके तन्द्रा प्रमादस्वापयोरपि ।त्रेता युगान्तरे वह्नित्रिके त्रय्यपि कथ्यते ॥ २२६ ॥
अनुष्टुप्
तूस्तं धूलौ जटायाञ्च पापे सूक्ष्मे च न द्वयोः ।त्रेताग्नित्रितये युगे तिप्राणितेरिते ॥
अनुष्टुप्metre not read in every line