कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इल्वला

ilvalāस्त्री · fem.

In 9 kośas: 8 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.23
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
भरणिर्भरणी चोक्ता कृत्तिका कृत्तिरुच्यते ।रोहिणी रोहिणिश्च स्यादिल्वला इल्लता (इल्लका?) स्त्रियः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.84 · p. 35
मृगो मार्गोऽथैतदूर्ध्वं ताराः सौम्येन्वकेल्वलाः ।जातेऽत्र मार्गशिरसस्तथा मृगशिरा अपि ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.105 · p. 18
बाहुला रोहिणी ब्राह्मी मृगशीर्षं मृगस्तथा ।मार्गो मृगशिरश्चान्द्रमसं चाथेल्वलाः पुनः ॥ १०५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.216 · p. 16
इल्वला इल्वकास्तास्युरिल्वुला इति कुत्रचित् ।बृहस्पतिः सुरगुरुः जीवश्चित्रशिखण्डिजः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.16 · p. 178
बहुलाश्च मृगशीर्षे मृगमार्गौ मृगाच्छिरः ।मृगशिराऽपि शीर्षस्तारकास्तस्य त्विल्वलाः ॥ १६ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.190 · p. 25
मृगशीर्षं मृगशिरो मृगः पुंस्याग्रहायणी ।इन्वकास्तच्छिरोदेशे तारका इल्वलाः स्त्रियः ॥ १९० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.39 · p. 20
इन्वकास्तच्छिरोदेशे तारका इल्वला मताः ।योग्यः सिध्यश्च पुष्यस्याद्यामकौ तु पुनर्वसू ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.33 · p. 195
चञ्चला विद्युदाख्याता चञ्चलौ चलकामुकौ ।इल्वला तारका काचिदिल्वलो दानवान्तरम् ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.43 · p. 279
अवेलमपलापे स्यादवेला पूगचर्विते ।इल्वला तारकाभेदे दैत्यमीनभिदोः पुमान् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2053 · p. 249
इषीकास्त्रे तृणेऽपि स्यादिल्वलः पुंसि दानवे ।तारकारिवल्वला स्त्रीत्व ईश्वरोऽधिपतौ हरे ॥ २०५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

इल्वला as a meaning in nānārtha verses

  • कोषकल्पतरु सौम्यसंबोधनीये [36b] सलिले तु षण्ढे प्रकीर्तितो योषिति चेल्वलासु । रम्यो भवेच्चम्पकवाचको ना रात्रौ स्त्रियां स्यात्त्रिषु सुन्दरे च ॥ २२ ॥ Koṣakalpataru 6.26.22