कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मार्ग

mārgaपुं · masc.

In 20 kośas: 38 synonym verses, 8 as a nānārtha head word, 48 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.109 · p. 8
मृगशीर्षं मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.983 · p. 39
पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी ।अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ९८३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.14
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.15
अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.260 · p. 32
अध्वा पन्थाः पद्धतिरेकपदी वर्त्म वर्तनी सरणिः ।अयनं पदवी मार्गः पद्या च निगद्यते निगमः ॥ २६० ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.184 · p. 83
मार्गे तु स्याद्धावनकः पन्थानः पदवी सृतिः ।पाणिन्धमस्तदल्पे स्याच्चोरमार्गे तु कीलकः ।सुराङ्गः कृत्रिमे मार्गे गविनी … च ॥ १८४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.93 · p. 18
मार्गोऽध्वा निगमः पन्था विवधः पुंसि बीवधः ।अपि द्वयोः स्यात्पदवी सरणिः सरणी सृतिः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.383 · p. 62
श्यामला ललिता गन्धधूलिरामोदिनीत्यपि ।मृगः सहस्रवेधी स्यान्मार्गो मृगमदोऽपि च ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.186 · p. 400
मार्गो मृगशिरः षण् स्त्री मृगशीर्षं च षण् स्त्रियाम् ।चन्द्रपर्यायदेवत्यमिल्वलास्त्विल्वका अपि ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.56 · p. 411
मार्गशीर्षो मार्गशिरो वर्षाद्यः स्यात्सहाः सहः ।आग्रहायणिको मार्गः स च स्यादाग्रहायणः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.84 · p. 35
मृगो मार्गोऽथैतदूर्ध्वं ताराः सौम्येन्वकेल्वलाः ।जातेऽत्र मार्गशिरसस्तथा मृगशिरा अपि ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.84 · p. 49
स्यात्कार्त्तिकः कार्त्तिकिकः कौमुदो बाहुलोर्जकौ ।सहः सहा मार्गशीर्षो मार्गः स्यादाग्रहायणः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.55 · p. 117
पन्थाः पत्सल-चारौ निगमो मार्गः पथोध्व-पद्वाजाः ।पद्या-पद्धति-पदवी-सृति-वर्तन्येकपद्यश्च ॥ ५५ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.55 · p. 171
आघाटः स्याच्छैखरिकः शिखरी शिखरस्वसः (?) ।धामार्गवोऽप्यपामार्गो मार्गः कूटो मयूरकम् ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 200
सैहं मार्गं काकं काङ्कं बाकं शौकं कापोतं च ।अप्यौलूकं मायूरं स्यात्सिंहादीनां संघातार्थे ॥ २७ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 162 · p. 78
वर्त्माऽध्वा सरणिः पन्था मार्गः प्रचरसञ्चरौ ।त्रिमार्गनामगा गङ्गा घोषो गोमण्डलं व्रजः ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.990 · p. 127
वैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्मणि ।मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्यां त्रिषु त्वियम् ॥ ९९० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.105 · p. 18
बाहुला रोहिणी ब्राह्मी मृगशीर्षं मृगस्तथा ।मार्गो मृगशिरश्चान्द्रमसं चाथेल्वलाः पुनः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.265 · p. 37
आवेष्टको वृतिर्वाटो मार्गोऽध्वा सरणिः सृतिः ।निगमः पद्धतिः पद्या पन्था एकपदी पुनः ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.159 · p. 17
ध्वजश्च केतनं केतुः पताका चिह्नमेव च ।मार्गोऽध्वा निगमः पन्था पदवी वर्त्म पद्धतिः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.134 · p. 32
विधिः कल्पाचारमार्गा वृत्तं शीलं स्वभाववत् ।क्षान्तिः क्षमा तितिक्षा च तपस्या नियमस्तपः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.95 · p. 15
चान्द्रमसं तथा मार्गः मृगश्च तदनन्तरम् ।इल्वलास्तु मृगशिरः शिरःस्थाः पञ्चतारकाः ॥ ९५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.146 · p. 21
मार्गशीर्षः सहाः मार्गो वत्सरादिस्तथा सहः ।आग्रहायणिकश्चैव सहस्यस्तु सहस्यवत् ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1686 · p. 271
एकपदी च मार्गोऽध्वा वर्त्तनी वर्त्तनिः सृतिः ।सरणिः सरणी वर्त्म शरणी निगमस्तथा ॥ १६८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.282 · p. 20
तथाग्रहायणे मार्ग आग्रहायणिकः सहः ।मार्गशीर्षः सहामार्गशिरोऽग्रहायणोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.23 · p. 47
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.270 · p. 100
क्लीबे सक्थि पुमानूरुरूरुसन्धौ तु वङ्घणः ।गुदं तलू हृदः पायुर्मार्गोऽप्यपानमित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्य (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.394 · p. 108
मदो योजनगन्धा च मार्गोऽपि गन्धचेलिका ।कालाङ्गी धूपसञ्चारी मिश्रागन्धपिशाचिका ।पर्यायः स्वल्पकस्तूरी नाभिभेदे निगद्यते ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.58 · p. 174
मार्गणं मृगणा मार्गो भवेद्विचयनं मृगः ।संवीक्षणञ्चापि हृतद्रव्यतात्पर्ययाचने ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.16 · p. 178
बहुलाश्च मृगशीर्षे मृगमार्गौ मृगाच्छिरः ।मृगशिराऽपि शीर्षस्तारकास्तस्य त्विल्वलाः ॥ १६ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.43 · p. 180
मार्गशीर्षे मार्ग-सहौ सहाः सान्तोऽथ माघके ।तपाः सान्तो ह्यस्त्रियां स्यात्, फल्गुनाले तु फाल्गुनः ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.252 · p. 34
मार्गस्तु मार्गशीर्षः स्यादाग्रहायणिकः सहाः ।पौषस्तैषः सहस्यश्च तपा माघेऽथ फाल्गुनः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.400 · p. 53
अथ वर्त्मायनं पन्था मार्गोऽध्वा पदवी सृतिः ।सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ ४०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.693 · p. 88
एण्याश्चर्माद्यमैणेयं मार्गैणे तु मृगैणयोः ।चीनकस्तु सितक्रोडः कन्दरस्तूच्चजानुकः ॥ ६९३ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1255 · p. 153
भिक्षा च याचना शंसा शासनं विचयो मृगः ।मार्गः परीष्टिरन्विष्टं मृगणान्वेषणा तथा ॥ १२५५ ॥
अनुष्टुप्
genderपुंmasc.
सिता कर्पूरके सोमः कस्तूर्यां मार्ग इत्यपि ।शताङ्गे तु त्रिका प्रोक्ता जग्धः स्वल्पान्नवाचके ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.20 · p. 52
शस्तं वपुः पुद्गलं स्यादाङ्गमङ्गं तु कोमलम् ।पायुस्तनुह्रदो मार्ग उच्चारस्तु पुरीषणः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.49 · p. 39
मार्गोऽध्वा पदवी पंथाः पद्या चैकपदी सृतिः ।सुपंथा अतिपंथाश्च सत्पथश्च शुभे पथि ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.807 · p. 93
शाखायामपि परिधिर्वसतिर्जैनाश्रमेऽपि निर्दिष्टा ।अन्वेषणेऽपि मार्गो भद्रो वृषभे वके ध्वाङ्क्षः ॥ ८०७ ॥
आर्या
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.7 · p. 165
सर्गस्तु शीलोद्यमनिर्णयेषुसंसारकाव्यादिकथासमाप्त्योः ।मार्गो मृगादिप्रभवेऽन्यलिङ्गो-ऽध्वान्वेषणामासभिदासु पुंसि ॥ ७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.989 · p. 127
मार्गो नाध्वनि मार्ष्टौ च मार्गशीर्षाख्यमासि च ।तथा मृगमदे सौम्यनक्षत्रेऽप्यब्रवीदिदम् ॥ ९८९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.991 · p. 127
मृगस्य स्याद्विकारादौ मांसं तु पिशिते नपि ।वाक्पतिस्तु नरेऽप्याह निर्मूलत्वादसाधु तत् ॥ ९९१ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.17 · p. 192
मार्गो मासे मृगमदे पथि चान्वेषणेऽपि च ।मृगः पशौ च हरिणे हस्तितारकभेदयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1981 · p. 241
मृगस्तु हरिणे सौम्ये नक्षत्रेऽन्वेषणे गजे ।मार्गो मृगशिरोमासान्वेषणाध्वसु याचने ॥ १९८१ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.66 · p. 114
भुजङ्गो भुजगे षिड्गे जामदग्न्यतटौ भृगुः ।मृगोऽन्विष्टौ च मार्गस्तु मासान्वेषणवर्त्मसु ॥ ६६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.46 · p. 217
मार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेषणेऽध्वनि ।मूत आतञ्चने व्रीहौ व्रीह्यादेर्बन्धने तृणैः ॥ ४६ ॥
अनुष्टुप्

मार्ग as a meaning in nānārtha verses