जीव
jīvaपुं · masc.In 22 kośas: 46 synonym verses, 14 as a nānārtha head word, 23 as a meaning of another word.
बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः ।वाचस्पतिर्द्वादशार्चिर्धिषणः फाल्गुनीभवः ॥ ११८ ॥गीर्बृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः ।
अनुष्टुप्
genderपुंmasc.
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी ।जीवः स्यादसुमान्सत्वं देहभृज्जन्युजन्तवः ॥ १३६६ ॥
अनुष्टुप्
genderपुंmasc.
जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ ॥
अनुष्टुप्
genderपुंmasc.
जीवोऽपि चेतने जन्तौ प्राणी जन्मोऽपि जन्मनि ॥ १२३ ॥
genderपुंmasc.
बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ।जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
वाचस्पतिराङ्गिरसो वृहस्पतिः कथ्यते गुरुर्जीवः ।धिषणस्त्रिदशाचार्यश्चित्रशिखण्डिप्रसूतश्च ॥ ४७ ॥
आर्या
genderपुंmasc.
असवो जीवितं प्राणा जीवो जीवा च कथ्यते ।क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
जीवा-ऽजीवोपकरण-गुणमार्गल(ण)-रज्जु-सूत्र-पूर्वभिदाम् ।कुलकर-पिण्डप्रकृति-स्रोतस्विन्यश्चतुर्दश तु ॥ २४ ॥
आर्या
genderपुंmasc.
सूरीर्बृहस्पतिर्जीवो धिषणो देवेन्द्रपूजितः ।इन्द्रमन्त्री देवगुरुर्नाकनायकचर्चितः ॥ ६८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 1 धिष (syllable split); pāda 3, syllable 5 दे (wrong syllable)
genderपुंmasc.
मंदार्किजीवा स्वगृहे क्रमान्मेषादि संस्थितः ।
genderपुंmasc.
जीवोऽसुधारणं चाथ क्लीबे द्वे आयुरायुषी ।पुंसि जीवितकालः स्याज्जीवातुर्जीवनौषधम् ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
जीवो जितेन्द्रियः कामी दद्रुघ्नस्तु प्रपुन्नटः ।चक्रमर्दः प्रपुन्नाटः पुन्नाटः शुकनासिकः ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
जीवो गीष्पतिपर्यायो गीष्पर्यायरथार्थकः ।देवार्थाद्गुरुपर्याय उतथ्यस्यानुजार्थकः ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्रज्ञ आत्मा पुरुषः पूरुषश्चाक्षरः कविः ।अन्तर्यामीश्वरो देही जीवोऽजो बहुलोऽतनुः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
जनी जनू जनुश्चास्त्री जीवो जन्यश्च पुंस्ययम् ।करणं खं पदं पुंसि हर्षि वैकारिकेन्द्रिये ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
जीवजन्युं प्राणिनोऽस्मिन्नंशुमान्सत्त्वमस्त्रियाम् ।क्लीबे प्रकाशार्कसत्त्वं रजो ना रञ्जकं रजः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि भूम्यसवो नित्यं प्राणा वातहृतौ पुनः ।जीवो जिगत्नुः स्त्री जीवा जीवः प्राणनजीवने ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वाचस्पतिः सुरगुरुर्गुरुरङ्गिरोजोजीवो बृहस्पतिरुतथ्यकनिष्ठ इज्यः ।स द्वादशार्चिरपि चित्रशिखण्डिजन्मास्याद्दीदिविर्धिषण-गीर्पति-फल्गुनीजाः ॥ १०४ ॥
वसन्ततिलका
genderपुंmasc.
ज्ञः श्यामाङ्गः श्रविष्ठाभूः पञ्चार्चिः स्यादिलाप्रियः ।बृहस्पतिर्गुरुर्जीवो धिषणद्वादशार्चिषौ ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
विष्टपं भुवनं विश्वं जगल्लोको जगत्यपि ।जीवः स्यात्पुरुषः क्षेत्रज्ञात्मानावसुमानथ ॥ २५५ ॥
अनुष्टुप्
genderपुंmasc.
स्वतस्त्रिलिङ्गः करकोऽब्दवाचकःप्राणेषु जीवः शललः शले तु ।केदारवाची वलजोऽनुतर्षेस्वतस्त्रिलिङ्गः सरकोऽपि दृष्टः ॥ १७४ ॥
upajati mixed
genderविadj.
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
मृतः परासुर्निर्ज्जिवः प्रमीतस्त्यक्तजीवनः ।आसुः प्राणो वसुर्जीव आयुर्जीवितजीवने ॥ २४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्नि (wrong syllable)
genderपुंmasc.
ज्ञो बुधश्चन्द्रतनयो सौम्यो वैबोधनाह्वयः ।गुरुर्जीवः पीतवर्नो धिषणो देवतार्चितः ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
कुक्कुभस्तित्तिरो लावो जीवो वाटेयको कटिः ।श्यामा कुमारी दुर्गोमा पोदकी भूमिदारिका ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
बुधस्तु सौम्यो ज्ञश्चान्द्रिर्गुरुर्जीवो बृहस्पतिः ।वाचस्पतिः सुराचार्यो गीष्पतिर्धिषणोऽङ्गिराः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
आत्मा जीवोंऽशुमाञ्जन्तुर्देही प्राणी च चेतनः ।जन्युः शरीरी पुरुषो हंसः सत्त्वं पुनर्भवा (?) ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
चित्रशिखण्डिजो जीवो धीषणो फल्गुनीभवः ।शुक्रः काव्यः कविर्धिष्ण्यः षोडशार्चिश्च भार्गवः ॥ १०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
genderपुंmasc.
जीवो जन्तुस्तथा जन्युः देहभाक् देहभाग्भवी ॥ २४८३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
जीवातुर्जीवितं प्राणाः जीवोऽसवोऽपि पञ्चमम् ।जीवनरक्षणोपायो जीवातुर्जीवनौषधम् ॥ २४८६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
genderपुंmasc.
इल्वला इल्वकास्तास्युरिल्वुला इति कुत्रचित् ।बृहस्पतिः सुरगुरुः जीवश्चित्रशिखण्डिजः ॥
अनुष्टुप्
genderपुंmasc.
आदिकारणमित्येतन्निदानं तत् प्रकीर्तितम् ।आत्मा स्वो जीवः पुरूषः क्षेत्रज्ञः पुरुषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
असवः पुंसि भूम्न्येव प्राणाश्च तत्र कीर्तिताः ।प्राणधारणमेव स्यात् जीवो जीवितमित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
विड्वैश्य ऊरुजोरयौ भूमिस्पृक् भूमिजीवनः ।जीविका जीव आजीवो वार्ता वृत्तिश्च वर्तनम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
genderपुंmasc.
जनुः सान्तं षण् जननम्, जीविते जीवस्त्रिष्वचि ।जीवातुरस्त्रियां प्राणाः पुंभूम्नि जीविताध्वनि ॥ २ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable); pāda 4, syllable 3 म्नि (wrong syllable)
genderविadj.
धिषणस्त्रिदशाचार्यो जीवश्चित्रशिखण्डिजः ।गुरुराङ्गिरसो वाचस्पतिर्गीष्पतिरित्यपि ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता ।मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥
अनुष्टुप्
genderपुंmasc.
ठकारो लाङ्गली चैव दक्षोरुर्वर्त्तुलः पुनः ।पूर्णचन्द्रामृताख्यौ च तथा करतलद्वयम् ।वनजो जीवनो जीवो वृषघ्नश्चन्द्रकः सुधा ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
हो नकुलीशः प्राणेशः प्राणः सम्बित् तथात्मजः ।अम्बिकापतिरात्मा च जीवो हंसः प्रकीर्त्तितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न (wrong syllable)
genderपुंmasc.
उपान्त्यो गणपालश्च शिवेशो विमलो लघुः ।हृदयान्नाभिगो जीवोऽसिता चैव ळ-कारकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
अथात्मा कर्मभुग्देही जीवः पुरुषपुद्गलौ ।अन्तर्यामीश्वरश्चान्तःकरणं तु मनो निगु ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
परमात्मा परो ब्रह्म जीवः क्षेत्रज्ञ आविशः ।शक्तिस्तु माया प्रकृतिर्व्योमाख्यं मूलकारणम् ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
परासुरुपसंपन्नः प्रमीतः संस्थितो मृतः ।जीवो जीवनं कीनादूर्ध्वं त्रिषु जीवस्तु जीवितम् ॥ २२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
भूतानि प्राणिनो जीवा जन्तवो जन्यवोऽङ्गिनः ।पुंसः प्राक् त्रिषु गुल्माद्यमुद्भिदुद्भिज्जमुद्भिदम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
जीवा तु जीवितं जीवं जीवौ कर्णबृहस्पती ।जीवो वृक्षप्रभेदः स्याज्जीवा जीवन्तिकौषधी ॥
अनुष्टुप्
जीवः प्राणेषु केदारे वलजः पवने खलः ।बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १९७ ॥
अनुष्टुप्
meaningsप्राण
जीवो ना गीष्पतौ जन्तौ क्षेत्रज्ञे त्रि तु जीवति ।त्रये प्राणे स्त्री तु मौर्व्यां जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥
अनुष्टुप्
स्याज्जीवनक्रियायां तु नृस्री छन्दोन्तरे पुनः ।द्विषष्टिस्वरके क्लीबं जीरस्त्वग्न्यन्नयोः पुमान् ॥ ४८३ ॥
अनुष्टुप्
क्षवश्च्छिक्काराजिकयोर्जीवस्तु मधुरप्रिये ॥ ४९५ ॥
meaningsमधुरप्रिय
महानिम्बेऽपि जीवा स्याज्जीवन्तीवचयोरपि ।दार्वी दारुहरिद्रायां गोजिह्वायामपि स्त्रियाम् ॥ ४९६ ॥
अनुष्टुप्
meaningsमहानिम्ब
स्त्री मौर्व्यामथ जन्तुः स्यात् प्राणिनि क्षत्रियान्तरे ।जम्बीरे दैत्यभेदे च जम्भो भूतान्तरेऽपि च ॥ १९२५ ॥
अनुष्टुप्
meaningsमौर्वी
doubtful
त्रिषु जीवति मौर्व्यां स्त्री स्याज्जीर्णो वज्रवृद्धयोः ।झषा नागबलायां स्त्री ना मत्स्ये मकरे वने ॥ ३४ ॥
अनुष्टुप्
meaningsजीवत्
जीव as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) भूतचतुर्विधेषु जीवेषु पृथिव्यादिषु पञ्चसु । अतीते देवयोनौ च भूतशब्दं प्रचक्षते ॥ ८५९ ॥ Abhidhānaratnamālā (Halāyudha) 5.859
- धरणिकोश जीवातुप्रहतौ क्षीणव्यासन्नौ विगतौ वीतनिष्प्रभौ । द्विजाती विप्रशकुनौ जीवातुर्जायुजीवयोः ॥ Dharaṇikośa 15.1.16
- कोषकल्पतरु क्षेत्रज्ञसर्वज्ञः स्मरहरबुद्धयोः कृतज्ञः कार्यज्ञे शुनि च भिषग्विपश्चितोस्तु । दोषज्ञोऽपरनिभ एष दोषविज्ञे क्षेत्रज्ञस्त्रिषु कुशले पुमांस्तु जीवे ॥ ४८ ॥ Koṣakalpataru 6.9.48
- कोषकल्पतरु स्थपतिचापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ Koṣakalpataru 6.16.29
- कोषकल्पतरु जीवनज्यौतिष्यपि स्याच्चरमेऽथ वेगे वेगाधिकेऽश्वे जवनश्च देशे । स्यादौषधौ स्त्रीपरवत्सवेगे जीवे सुते जीवन आदिलिङ्गः ॥ ४४ ॥ Koṣakalpataru 6.21.44
- नानार्थार्णवसंक्षेप आत्मन्व्यसने बन्धके चेति चतुर्ष्वर्थेषु कीर्तितः । आत्मार्कचन्द्रवाताग्निजीवेषु परमात्मनि ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 2.2.12
- नानार्थार्णवसंक्षेप जीवातुस्याज्जीवनौषधे केचित् त्वौषधे सलिलान्नयोः । द्रव्ये च रभसस्त्वाह जीवे बहुविदां वरः ॥ ८०८ ॥ Nānārthārṇavasaṃkṣepa 4.808
- नानार्थार्णवसंक्षेप मन्दसानमन्दसानस्तु नार्केऽग्नौ चन्द्रे जीवेऽप्यथ द्वयोः । हंसे महीपतिस्तु स्यान्नृपे भव्याख्यपादपे ॥ ४९३ ॥ Nānārthārṇavasaṃkṣepa 6.493
- परमानन्दीयनाममाला जचुः कोकेऽप्यथ संस्थाने छश्चारे छेदके रवौ । छं वृत्ते निर्मले प्रोक्तं जोऽथ केशवजीवयोः ॥ १७ ॥ Paramānandīyanāmamālā 1.17
- परमानन्दीयनाममाला अक्षअक्षो विभीतके तुत्थे रावणाङ्गजकर्षयोः । रथाङ्गे शकटे जीवे पाशके च वराटके ॥ ४ ॥ Paramānandīyanāmamālā 5.1.4
- परमानन्दीयनाममाला गुरुगन्धो लेशे स्मये गन्धे गुरुः पित्रादिजीवयोः । गौरः सितेऽरुणे पीते चन्द्रकर्पूरयोः शुचौ ॥ १५३ ॥ Paramānandīyanāmamālā 5.9.153
- परमानन्दीयनाममाला सत्त्वसर्गो वर्गे स्वभावे च निर्माणोत्साहयोरपि । सत्त्वं गुणान्तरे जीवे क्रियाकारस्वभावयोः ॥ ३६४ ॥ Paramānandīyanāmamālā 5.27.364
- परमानन्दीयनाममाला हंसहंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च । खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥ Paramānandīyanāmamālā 5.28.375
- शब्दरत्नाकर जीवानिष्ठीवस्तु द्वयोर्निष्ठीवननिष्ठेवने तथा । निष्ठ्यूतिरथ जीवे स्याज्जीवा संधा प्रतिश्रवे ॥ १७३७ ॥ Śabdaratnākara 3.7.1737
- शब्दरत्नाकर आत्मन्आत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः । धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥ Śabdaratnākara 4.1.1872
- शब्दरत्नाकर प्राणप्राणस्तु जीविते जीवे जीवात्मपरमात्मनोः । अन्तर्याम्यन्तःकरणवायुभेदबलेषु च ॥ १९५३ ॥ Śabdaratnākara 4.1.1953
- शब्दरत्नाकर हंससत्रं यज्ञे सदा दाने वनेऽन्नार्पणवेश्मनि । हंसोऽर्के विहगे विष्णौ जीवे श्वेतवृषे स्मरे ॥ २०२७ ॥ Śabdaratnākara 4.1.2027
- तन्त्राभिधान ळ्----------------------------------- ळ-कारो विमलो जीवः शिवो भूमिर्वरानने! । क्ष-कारो नरसिंहश्च मेरुः संवर्तकोऽपि च ॥ ३० ॥ Tantrābhidhāna 1.30
- तन्त्राभिधान सदुर्गोत्तारिणी सम्मोहा जीवो मूर्त्तिमनोहरः ॥ १६२ ॥ Tantrābhidhāna 2.49.162
- तन्त्राभिधान हपरमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनम् । मृगोऽभयाऽरुणा स्थाणुः क्रोष्टुः कूपविरावणः ॥ १६४ ॥ Tantrābhidhāna 2.50.164
- वैजयन्ती आत्मन्अंशुः सूत्रादिसूक्ष्मांशेऽप्यंकश्चिह्नेंऽतिकोरसोः । आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि ॥ ६ ॥ Vaijayantī 6.1.6
- वैजयन्ती प्राणप्राणस्तु प्रणवे जीवे जीविते परमात्मनि । इन्द्रिये वायुभेदे च बलान्तर्यामिणोरापि ॥ ३८ ॥ Vaijayantī 6.1.38
- वैजयन्ती हंसहंसोऽश्वेऽर्के हरे विष्णौ खगे निर्लोभभूभुजि । जीवे श्वेतवृषे भिक्षौ पार्ष्णिकाप्रसभौ हठौ ॥ ६८ ॥ Vaijayantī 6.1.68