कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तारका

tārakāस्त्री · fem.

In 19 kośas: 24 synonym verses, 1 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.108 · p. 8
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.25
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.92
कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.51 · p. 7
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderस्त्रीfem.
ज्योत्स्नी च ज्यौत्स्निका ज्योत्स्ना ज्योत्स्नावत्यां निशि स्थिताः ।तारकं तारका तारा तारं च परिकीर्त्यते ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रसञ्ज्ञा Gaṇitanāmamālā 2.1 · p. 1
धिष्ण्यं भमर्क्षनक्षत्रं तारका इति गद्यते ।
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.147 · p. 36
दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् ।तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.181 · p. 400
विह्वलार्थं तु नीहारो वश्योऽवश्याय इत्यपि ।नक्षत्रं तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.77 · p. 35
भं नक्षत्रं धिष्ण्यमृक्षं तारावत्तारका त्रिषु ।न पुंस्युडु ग्रहोऽथ स्यात्तज्जे नाक्षत्रभे त्रिषु ॥ ७८-७९ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.103 · p. 18
कला च षोडशो भागस्तारकाभोडवः पुनः ।नक्षत्रज्योतिषी धिष्ण्यं ग्रहऋक्षेऽप्यथाश्विनी ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.120 · p. 17
हिमानी हिमराशौ स्यात्तद्गुणे सुष(षि?)मो जडः ।भं नक्षत्रं तारकं च तारका धिष्ण्यमुन्नतम् ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.319 · p. 22
नक्षत्रं तारका तारा भमृक्षमुडुरत्निका ।मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.30 · p. 22
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.75 · p. 12
चन्द्रा अर्का ग्रहाश्चैवं नक्षत्राणि च तारकाः ।ज्योतिष्का देवताः पञ्च विश्वे विश्वप्रकाशकाः ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.92 · p. 14
नक्षत्रं तारका तारा ज्योतिषी भमुडुर्ग्रहः ।धिष्ण्यमृक्षं नवैव स्युरन्तर्भेदोऽपि ज्ञायताम् ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.923 · p. 141
रूपग्रहोऽम्वकं चैव दृक् चेति कथ्यते बुधैः ।तारा कनीनिका भूयस्तारका रूपग्राहिणी ॥ ९२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 4, syllable 5 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.210 · p. 15
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.315 · p. 103
भ्रूवौ स्त्रियां नयनयोरूर्ध्वलोमावली द्वयम् ।अस्त्री कूर्चं भ्रूवोरन्तस्तथा तारा तु तारका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ्रू (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.15 · p. 178
नक्षत्रे तारका तारा निरिकाराऽत्र तारका ।अश्वयुज्याश्विकिनी चाश्विनी स्युः कृत्यका बहौ ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.159 · p. 201
कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे ।काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.188 · p. 25
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1085 · p. 134
मलं तु दूषिका दृष्ट्योस्तारकास्तु कनीनिका ।अपाङ्गश्चक्षुषोरन्ते कटाक्षोऽपाङ्गदर्शने ॥ १०८५ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.20 · p. 283
तारकं रसनं नीडमेते टाबन्तकाः स्त्रियाम् ।ङ्यन्तास्तु नगरास्थानस्थलानि पाटलं पुरम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.94 · p. 180
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.45 · p. 260
न नाक्षिमध्ये नक्षत्रे द्विजिह्वौ सूचकोरगौ ।दुर्वर्णं दुष्प्रभे रूप्ये देयभेदे तु दक्षिणा ॥ ४५ ॥
अनुष्टुप्
doubtful

तारका as a meaning in nānārtha verses

  • धरणिकोश दाक्षायणीनिगरणमभ्यवहारे निगरणो गल उच्यते । दाक्षायणीं विदुर्दुर्गामश्विनाद्याश्च तारकाः ॥ Dharaṇikośa 14.2.32
  • धरणिकोश चित्राचित्रा मूषिकपर्णिका निगदिता चित्रा सुभद्रा स्मृता गोडुम्बापि च दन्तिकापि च तथा सर्पप्रभेदेऽपि सा । हस्तालम्भनतारका निगदिता चित्रा तथा शाम्बरी चित्रं कर्बुरमद्भुतं तु तिलकं चालेख्यमुत्कीर्तितम् ॥ Dharaṇikośa 26.3.4
  • धरणिकोश मूलामूलमाद्यान्तिकशिफासूक्ता मूला तु तारका । तूलः पिचुः ब्रह्मदारु तूलं तूली सुखासनम् ॥ Dharaṇikośa 27.2.7
  • धरणिकोश इल्वलाचञ्चला विद्युदाख्याता चञ्चलौ चलकामुकौ । इल्वला तारका काचिदिल्वलो दानवान्तरम् ॥ Dharaṇikośa 27.2.33
  • धरणिकोश ज्योतिस्ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च । ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥ Dharaṇikośa 31.2.9
  • धरणिकोश ऋक्षलक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः । ऋक्षाणि तारका ऋक्षो भल्लुकाद्रिप्रमेदयोः ॥ Dharaṇikośa 33.2.1
  • नानार्थार्णवसंक्षेप मातृब्राह्म्याद्यासु च देवीषु वेषणीसरितोरपि । अकारादिकवर्णानामाम्नाये तारकासु च ॥ ९९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.996
  • नानार्थार्णवसंक्षेप विशाखाभगवद्यादवोक्तं तु चेतसि क्लीबलिङ्गकम् । निश्शिखे तु त्रिषु स्त्री तु विशाखा तारकान्तरे ॥ १६९९ ॥ Nānārthārṇavasaṃkṣepa 4.1699
  • शब्दरत्नावली रेवतीरसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते । त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् ॥ रेवती तारकामातृभिदोश्च रामयोषिति । रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे ॥ रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥ Śabdaratnāvalī 7.16.128