कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उद्र

udraपुं · masc.

In 10 kośas: 10 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1350 · p. 51
उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ १३५० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.20
तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः ।तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.90 · p. 109
शिशुमारो जलकपिः पलाङ्गश्चासिपुच्छकः ।महावसोष्णवीर्यौ च स्यादुद्रोऽम्बुबिडालकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.245 · p. 82
मत्स्यराजो लोहितः स्याज्जलौतुस्तूद्र उच्यते ।यादांसि जलजीवाः स्युः सामान्येनाप्यनेकशः ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.58 · p. 130
शिशुमारे बहुबलो नक्रः कुम्भीर इत्यपि ।वि(उ?)द्रो जलबिडारः स्याच्छङ्कुर्जलकिटिः स्मृतः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2451 · p. 395
उद्रश्च जलमार्जारः पानीयनकुलो वसी ।एतन्नामानि कथ्यन्ते पानीयनकुलस्य वै ॥ २४५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.84 · p. 42
जलजन्तुविशेषाश्च मकरः शिशुमारकः ।उद्रः शङ्कुप्रभृतयश्चान्येऽपि बहुसम्मताः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.86 · p. 42
उद्र उर्दो जलाखुश्च स्यान्नीरनकुलोऽपि च ।अथ शङ्कुः शङ्कुचिः स्यात् शङ्कोचिः शाङ्कोचीत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ङ्को (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.17 · p. 27
जलकूर्मस्त्वम्बुकीशो वसाढ्यः शिशुकश्च सः ।उद्रस्तु जलमार्जारजलाखुनकुलप्लाः ॥ १७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.54 · p. 152
उद्रस्तु जलमार्जारः पारी परकुलो वशी ।शिंशुमारस्त्वंबुकपिरुष्णवीर्यो महावसः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वं (wrong syllable)
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.100 · p. 51
उद्रो द्वे जलमार्जार ऋषिभेदे तु नाथ ना ।उषः प्रस्थचतुर्भागे प्रभातेऽथ स्त्रियामुषा ॥ १०० ॥
अनुष्टुप्