यादस्
yādasक्ली · neut.In 14 kośas: 13 synonym verses, 3 as a meaning of another word.
genderक्लीneut.
तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः ।तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
अन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते ।अवहारः स्मृतो ग्राहः कुम्भीरो नक्र उच्यते ।कच्छपः कमठः कूर्मस्तद्भार्या च डुली स्मृता ॥ ६५६ ॥
अनुष्टुप्
genderक्लीneut.
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
कमलं क्षीरं भुवनोस्वीस्यं(?)घनरसं कुशम् ।यादो वासो(?)वर्णसिर्ना नोडुः पुंसि स्त्रियां त्विरा ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रं (wrong syllable)
genderक्लीneut.
क्रूरं जलचरं सत्त्वं यादोऽन्त्ये मालवः पुमान् ।यादोज्वरस्त्विन्द्रमदः शुण्डा तु जलहस्तिनी ॥कुम्भी कुम्भीर आलास्यो नक्रः स्याज्जलशूकरः ।महामुखो गोमुखश्च शङ्खास्यस्तालुजिह्वकः ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
पृथुरोमा षडक्षीणो यादो वैसारिणो झषः ।विसारी शफरी मीनः पाठीनोऽनिमिषस्तिमिः ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
मत्स्यराजो लोहितः स्याज्जलौतुस्तूद्र उच्यते ।यादांसि जलजीवाः स्युः सामान्येनाप्यनेकशः ॥ २४५ ॥
अनुष्टुप्
genderक्लीneut.
कच्छपः कमठः कूर्मो दौलेयः कमठी दुलिः ।यादांसि जलजीवाः स्युस्ते नक्रमकरादयः ॥ १२४ ॥
अनुष्टुप्
genderक्लीneut.
स्युर्यादांसि नक्राद्या हिंसका जलजन्तवः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्यु (syllables merged)
genderक्लीneut.
कातरः कातलोऽपि स्याद् राजीवो राजहासकः ।एते मत्स्यविशेषाः स्युर्यादांसि जलजन्तवः ॥
अनुष्टुप्
genderक्लीneut.
महाङ्गाः क्रूरहृदयाः यादांसि जलजन्तवः ।सहस्रदंष्ट्रपाठीनौ शिशुकोलूपिनौ समौ ॥ ३३५ ॥
अनुष्टुप्
genderक्लीneut.
सरीसृपास्तु सर्पाद्या दन्दशूकास्तु दंशकाः ।शलभाद्याः पतंगाः स्युर्यादांसि जलजन्तवः ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
यादस् as a meaning in nānārtha verses
- धरणिकोश शङ्कुकल्कः पापाशये दम्भे कल्कं किल्बिषकिट्टयोः । शङ्कुः संख्यान्तरे कामे शम्भौ यादोऽस्त्रभेदयोः ॥ Dharaṇikośa 1.2.3
- कोषकल्पतरु माचलपाचलो धनहुताशवायुषु ग्राहयादसि तु माचलो मतः । बन्दितस्कररोगयोरथो श्वेतरक्तरुचि पाटलस्त्रिषु ॥ २९ ॥ Koṣakalpataru 6.28.29
- त्रिकाण्डशेष मकरमहेन्द्रो भूधरे शक्रे मन्दे वक्रे च मन्थरः । विघ्नमन्मथयोर्मारो मकरो राशिथादसोः ॥ ३६८ ॥ Trikāṇḍaśeṣa 3.3.368