कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

करवाल

karavālaपुं · masc.

In 11 kośas: 11 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.782 · p. 32
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१ ॥शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखड्गाः ।तरवारिकौक्षेयकमण्डलाग्रा असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ ७८२ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.89
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.281 · p. 120
रिष्टिरृष्टिर्द्वयोः खड्गः पुंसि कौक्षेयकोऽपि च ।भद्रासनो मण्डलाग्रः करवालः कृपाणवत् ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.294 · p. 121
सान्द्राङ्गः करवालोऽयं भद्रकालीकरस्थितः ।राजजम्बूफलश्यामो वक्रपाण्डुरयोगरः ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 265
कौक्षेयको विशसनो धाराधर-चन्द्रहास-धाराङ्गाः ।करवालः करपालः कोशधरो मण्डलाग्रश्च ॥ २९ ॥
आर्या
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.387 · p. 150
निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः ।करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.226 · p. 16
लक्षं वेधनकं शक्यं कुठारः परशुः स्वधिः ।करवालो मण्डलाग्रः खड्गोऽसिर्ल्लोहपन्नगः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.31 · p. 37
करवालासिनिस्त्रिंशकृपाणतरवारयः ।मण्डलाग्रश्चन्द्रहासः खङ्गकौक्षेयरिष्टयः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1283 · p. 201
करपालः कृपाणश्च करवालः करालिकः ।तीक्ष्णधारश्च धाराङ्गो धाराधरो दुरासदः ॥ १२८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.277 · p. 211
करवालः करपालः करालिकस्तथोदितः ।चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च ॥ २७७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1336 · p. 162
मण्डलाग्रासिनिस्त्रिंशखड्गकौक्षेयरिष्टयः ।चन्द्रहासः कृपाणस्तु स्त्रियां च करवालवत् ॥ १३३६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.

करवाल as a meaning in nānārtha verses