तूणी
tūṇīस्त्री · fem.In 13 kośas: 11 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
तूणीरमुपासङ्गस्तूणं तूणी निषङ्ग इषुधिश्च ।बाणाश्रयः कलापः कार्मुककोटिर्भवेदटनिः ॥ ४६५ ॥
आर्या
genderस्त्रीfem.
तूणी तूणा च तूणीर उपासङ्गो निषङ्गकः ।चन्द्रहासस्त्वसिः पुंसि प्रवालः सायकोऽपि च ॥ २८० ॥
अनुष्टुप्
genderस्त्रीfem.
निषङ्ग-तूणीर-कलाप-बाणा-वापा उपासङ्ग उपाश्रयश्च ।स्त्रीपुंसयोः स्यादिषुधिश्च केकि-छन्दं द्वि[121b]हीनं त्रितयेऽत्र तूणी ॥ २७ ॥
उपजातिःmetre not read in every line
genderस्त्रीfem.
नील्यां श्रीफलिका काली दोला मेला विशोधनी ।तूणी तुत्था भारवाही रञ्जनी मधुपर्णिका ॥ २५० ॥
अनुष्टुप्
genderस्त्रीfem.
सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः ।तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥
अनुष्टुप्
genderस्त्रीfem.
तूणी तूणश्च षट्कं स्यादुक्तं टोनसमाह्वये ।अथ खड्गश्चन्द्रहासो मण्डलाग्रः प्रवालकः ॥कौक्षेयको विशसनः कृपाणः करपालकः ।भद्रात्मजो रिष्टिरिष्टौ ऋष्टिर्द्वाराविषोऽपिच ॥
अनुष्टुप्
genderस्त्रीfem.
तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् ।उपासङ्गोऽपि खड्गे तु ऋष्टि-रिष्टी नरस्त्रियौ ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
genderस्त्रीfem.
पुङ्खो लक्षो(क्षा?)ऽतिगो वेगो दीप्तिः शल्यफले समे ।तूणीषुधिर्द्वयोस्तूण उपासङ्गः कलापकः ॥ १३३३ ॥
अनुष्टुप्
genderस्त्रीfem.
शल्लको वृश्चिकः कीटः शारस्तूणो घटः कटः ।शफरो वेतसश्चामी स्त्रियां ङ्यन्ताः प्रकीर्त्तिताः ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्तिरार्तिः किरिः कोटी ज्या जीवा मौर्विका द्रुणा ।तूणी तूण उपासंगतूणीरौ विशिखाश्रयः ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.
तूणी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप कलापक्वचिदाङ्गिरसे मत्ये कलापस्तु पुमानयम् । काञ्चीतूणीसमूहेषु भूषणे बर्हिबर्हके ॥ ३०४ ॥ Nānārthārṇavasaṃkṣepa 4.304