कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मण्डलाग्र

maṇḍalāgraपुं · masc.

In 16 kośas: 16 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.782 · p. 32
तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१ ॥शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखड्गाः ।तरवारिकौक्षेयकमण्डलाग्रा असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ ७८२ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.89
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.472 · p. 54
निस्त्रिंशः करबालः खड्गः कौक्षेयकः कृपाणः स्यात् ।रिष्टिरसिचन्द्रहासौ तरवारिर्मण्डलाग्रं च ॥ ४७२ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.281 · p. 120
रिष्टिरृष्टिर्द्वयोः खड्गः पुंसि कौक्षेयकोऽपि च ।भद्रासनो मण्डलाग्रः करवालः कृपाणवत् ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 265
कौक्षेयको विशसनो धाराधर-चन्द्रहास-धाराङ्गाः ।करवालः करपालः कोशधरो मण्डलाग्रश्च ॥ २९ ॥
आर्या
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 85 · p. 43
कौक्षेयकासिनिस्त्रिंशकृपाणाः करवालकः ।तरवारिर्मण्डलाग्रं खड्गनामावलिं विदुः ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.387 · p. 150
निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः ।करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.364 · p. 71
खड्गे तु मण्डलाग्रः स्यान्निस्त्रिंशो रिष्टिरित्यपि ।कौक्षेयकश्चन्द्रहासः कृपाणोऽसिरपि स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.226 · p. 16
लक्षं वेधनकं शक्यं कुठारः परशुः स्वधिः ।करवालो मण्डलाग्रः खड्गोऽसिर्ल्लोहपन्नगः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.31 · p. 37
करवालासिनिस्त्रिंशकृपाणतरवारयः ।मण्डलाग्रश्चन्द्रहासः खङ्गकौक्षेयरिष्टयः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1285 · p. 201
मण्डलाग्रो मनुज्येष्ठो धर्मपालः प्रजाकरः ।निस्त्रिंशश्चन्द्रहासोऽपि चन्द्रभासश्च सायकः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.340 · p. 133
तूणी तूणश्च षट्कं स्यादुक्तं टोनसमाह्वये ।अथ खड्गश्चन्द्रहासो मण्डलाग्रः प्रवालकः ॥कौक्षेयको विशसनः कृपाणः करपालकः ।भद्रात्मजो रिष्टिरिष्टौ ऋष्टिर्द्वाराविषोऽपिच ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1336 · p. 162
मण्डलाग्रासिनिस्त्रिंशखड्गकौक्षेयरिष्टयः ।चन्द्रहासः कृपाणस्तु स्त्रियां च करवालवत् ॥ १३३६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1337 · p. 162
अर्धहासोऽर्धचन्द्राङ्गो मण्डलाग्रोऽन्वितार्थकः ।अम्बुनर्तस्तु खड्गोऽम्बुन्यस्ततैलानिभप्रभः ॥ १३३७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.160 · p. 117
स्नुहीदलाभो निस्त्रिंशो मण्डलाग्रोऽन्वितार्थकः ।चन्द्रहासोऽर्धचन्द्राग्र इली तु करवालिका ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.484 · p. 68
खड्गे खड्गविशेषे तु यादवो(र ? ऽन्व)र्थनामतः ।अत्रापि पूर्ववत् सादि मस्तुलुङ्गस्तु पुन्नपोः ॥ ४८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful