कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इष्टि

iṣṭiस्त्री · fem.

In 10 kośas: 8 synonym verses, 7 as a nānārtha head word, 6 as a meaning of another word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.103 · p. 75
शम्भुरस्तु मदो हर्षः प्रमोदो मोदसम्मदौ ।आनन्दो नन्दथुर्ह्रादस्तृप्तिर्हृष्टिमुदिष्टयः ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.60 · p. 75
इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च ।राजसूयं वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.387 · p. 150
निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः ।करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1286 · p. 202
ऋष्टिरिष्टिस्तथा रुद्रतनयस्तरवारि हि ।खड्गो धर्मप्रचारश्च प्रसङ्गोऽपि शिवङ्करः ॥ १२८६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.25 · p. 112
यज्ञो यागः सप्ततन्तुरिष्टिरिष्टं मखः क्रतुः ।वितानमध्वरो मन्युराहवः सवनं सवः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.340 · p. 133
तूणी तूणश्च षट्कं स्यादुक्तं टोनसमाह्वये ।अथ खड्गश्चन्द्रहासो मण्डलाग्रः प्रवालकः ॥कौक्षेयको विशसनः कृपाणः करपालकः ।भद्रात्मजो रिष्टिरिष्टौ ऋष्टिर्द्वाराविषोऽपिच ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1172 · p. 144
इज्येष्टिर्यज्ञकर्मेष्टं पूर्तं खातादिकर्मणि ।यज्ञशीलो यायजूको यज्वा स्यादासुतीवलः ॥ ११७२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1726 · p. 208
भ्रेषोऽधःपतने प्लोष ओषः स्यात् संभ्रमस्त्वरा ।यदृच्छा स्वैरताहेतुरिष्टिरिच्छा वृषा वृषे ॥ १७२६ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.77
इष्टिर्यागेच्छयोः सृष्टिर्निश्चिते बहुनि त्रिषु ।
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.15 · p. 180
स्यात्संग्रहश्लोकमखाभिलाषे-ष्विष्टिः परीमाणमुदोस्तु दिष्टिः ।विष्टिस्तु भद्राकरणेऽपि जन्यौसंप्रेषणे कर्मकरे च योषि[271a]त् ॥ १५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.14 · p. 11
इष्टिर्यागेच्छयोरीषा रथसीरादिदण्डके ।प्रमाणभेदे भगवानष्टाशीतिशताङ्गुले ॥ १४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास इकारादयः Paramānandīyanāmamālā 5.2.59 · p. 168
इष्टिर्यागेच्छयोरीशो हरौ शम्भौ क्षमे मतः ।ईक्ष्वाकुर्नृपमेदे स्यात्कटुतुम्ब्यामपीरितः ॥ ५९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.3 · p. 199
इष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् ।कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1875 · p. 229
इला तु तासु सार्घ्यासु स्यादिष्टिर्यजनेच्छयोः ।सुत्रामसूर्ययोरिन्द्र ईतिः क्लेशोपसर्गयोः ॥ १८७५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.4 · p. 220
इलाप्येतासु चार्घे च स्यादिज्या यागपूजयोः ।इष्टिः स्पृहायजनयोरिरा भूवाक्सुरांबुषु ॥ ४ ॥
अनुष्टुप्

इष्टि as a meaning in nānārtha verses

  • कोषकल्पतरु सवनस्यात्सवनं स्थितिवाचकमिष्टौ सोमलताभिषवे नरि चन्द्रे । निद्रा शय्या सुरते शयनं शमनस्तु यमेऽन्त्ये वधशान्त्योः ॥ ९ ॥ Koṣakalpataru 6.21.9
  • नानार्थार्णवसंक्षेप सौमिकीइष्टौ स्याद्दीक्षणीयायां सौराष्ट्री तु स्त्रियामियम् । सौराष्ट्रदेशविख्याते मृद्भेदे हि यदाह्वयः ॥ २०१४ ॥ Nānārthārṇavasaṃkṣepa 4.2014
  • शब्दरत्नावली धृतिधूर्तो ना धुस्तरे खण्डणवणे स्याद्विटे त्रिषु । धृतिर्धैर्ये धारणे च योगभेदेष्टितुष्टिषु ॥ Śabdaratnāvalī 7.16.20
  • शब्दरत्नावली मन्युअथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥ मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥ मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ Śabdaratnāvalī 7.26.22
  • वैजयन्ती यज्ञमृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ । यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥ Vaijayantī 6.1.47
  • वैजयन्ती सुधागंगेष्टिमूर्वयोः स्नुह्यां लेपभेदेऽमृते सुधा । रश्मिमेखलयोः स्यूना सीता सस्ये हलाध्वनि ॥ ४५ ॥ Vaijayantī 6.2.45