खलपू
khalapūपुं · masc.In 11 kośas: 10 synonym verses, 1 as a meaning of another word.
genderपुंmasc.
genderविadj.
आयत्तश्चाथ खलपूः स स्याद्बहुकरोऽपि च ।चिरक्रियो दीर्घसूत्रो जाल्मोऽसमीक्ष्यकारिणि ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
genderविadj.
द्वयोः पुंस्त्वे तु खलपूरीर्ष्यालुः कुहनः स्मृतः ।दूढ्यस्तु दुर्ध्यानकरे दूणाशो दूर्वधः स्मृतः ॥दूडाशो दुःखदे[162a]यः स्याद्दुर्दभ्यो दूडभः स्मृतः ।सर्वंसहः सर्वसोढा क्षमः शक्तः सहः प्रभुः ॥समर्थः सहिता सोढा प्रभूष्णुरपि तादृशः ।बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥भक्षको घस्मरो वर्विराशितश्चाद्मराशिनौ ॥ ५९ ॥
metre not recognised
genderपुंmasc.
ऋद्धमावसितं धान्यं बहुलीकृतं संस्कृतम् ।खलपूः स्याद्बहुकरश्छादितेयश्छदिस्तृणम् ॥ २१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तं (wrong syllable)
genderपुंmasc.
भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् ।भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
जाल्मोऽसमीक्ष्यकारी स्यात्कर्मशूरस्तु कर्मठः ।खलपूः स्याद्बहुकरश्चोत्तालः कर्मवर्जिते ॥ ६४५ ॥
अनुष्टुप्
genderविadj.
खलपू नाम निर्देशः भारवाहस्तु भारिकः ।पुनर्वार्त्तावहे वैवधिको विवधिकस्तथा ॥ ५३८ ॥
अनुष्टुप्
genderपुंmasc.
निवृतं तु परिक्षिप्तं कलिलं गहनं समे ।जैवातृक आयुष्मान् स्फीतं वृद्धं बहुकरः खलपूः ॥ १६५९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
ऋद्धमावसितं धान्यं पूतं तु वहुलीकृतम् ।खलपूः स्याद्बहुकरश्छादिषेयं छदिस्तृणम् ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
खलपू as a meaning in nānārtha verses
- तन्त्राभिधान षसूर्यात्मा जठरः कोषो मत्ता वक्षोविदारिणी । कलकण्ठो मध्यभिन्ना युद्धात्मा खलपूः शिरः ॥ १५८ ॥ Tantrābhidhāna 2.48.158