कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किल

kilaपुं · masc.

In 11 kośas: 4 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.115 · p. 5
ज्येष्ठभगिन्यां तु वीरभवन्ती स्यात्तु नर्मणि ।सुखोत्सवो रागरसो विनोदोऽपि किलोऽपि चा ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.18 · p. 121
नूनं किल खलु द्वै त्वै पृच्छादौ तु कथं कुतः ।किं ततो हूमपि ननु किंनु स्विन्नु तथापि हुम् ॥ १८ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.888 · p. 134
क्रीडा केलिः किलः खेला लीला तथा सुखोत्सवः ॥ ८८८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.149 · p. 200
किलः केलिश्च जनके बप्पो वप्रश्च तातयुक् ।ततो जनयिता तद्वज्जनित्रोऽपि च मातरि ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.255
स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल ॥ २५५ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.874 · p. 100
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः ।प्रत्यक्षसदृशोः साक्षाद्वार्त्तासम्भाषयोः किल ॥ ८७४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास लान्ताः Dharaṇikośa 34.17.1 · p. 242
किलशब्दस्तु वार्तायां संभाव्येऽनुनयेऽरुचौ ।
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.18 · p. 133
संभाव्यवार्तानुनयेषु हेतौकिलेत्यलीकेऽप्यरुचौ प्रदिष्टम् ।सद्वाक्यभूषाप्रतिषेधमान-ज्ञीप्सासु वीप्सासु खलु स्मरन्ति ॥ १८ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.55 · p. 304
किल सम्भाव्यवार्त्तानुनयनिश्चिततुष्टिषु ।खलु निश्चितजिज्ञासापदवाक्यादिपूरणे ॥हेतावसहने गत्यां विशेषे च निगद्यते ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2266 · p. 275
इवेत्थमर्थयोरेवमेव निर्धारणेऽपि च ।कच्चित्प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ २२६६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.467 · p. 261
हुं वितर्के चानुमतौ वार्त्तायामरुचौ किल ।प्रातर्दिने च पूर्वत्रेऽत्यर्थे पूर्वेद्युरिष्यते ॥ ४६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.19 · p. 285
पादपूरणकृच्चायमेवं साम्याभ्यनुज्ञयोः ।कच्चित् प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ १९ ॥
अनुष्टुप्