कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनुनय

anunayaपुं · masc.

In 11 kośas: 9 synonym verses, 19 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1504 · p. 56
प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् ।विशाय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ ॥परिपाट्यानुपूर्व्यातृदतिपातस्त्वतिक्रमः ।उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.749 · p. 86
व्यलीकमपराधः स्यादागो मन्तुश्च विप्रियम् ।प्रणतिः स्यादनुनयः प्रणिपातश्च सान्त्वनम् ॥ ७४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.12 · p. 236
तथा चानुनयोऽथ स्यान्मृगया मृगणा मृगः ।स्यान्मार्गणा मृगो घातेऽप्याघातश्च विघातकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.24 · p. 237
प्रणिपातस्त्वनुनयः प्रणतिः सान्त्वनं पुनः ।अपि ग्लानिस्तु क्लमथुरनुतापो विसूरणम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.84 · p. 239
प्रणिपातस्त्वनुनयः प्रणतिः स्त्री क्षमापणम् ।वरिवस्या तु शुश्रूषा परिचर्या प्रसादना ।आराधनोपासना च परीष्टिर्भक्तिरित्यपि ॥ ८४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.101 · p. 29
संदेशो वाचिकं वाच्यं लेखः पत्रं च पत्रिका ।प्रसादनमनुनयः सान्त्वनं चटु चाटु च ॥ १०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.345 · p. 445
प्रणतिः प्रणिपातश्च कथ्यतेऽनुनयः पुनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.75 · p. 175
परभागः परोत्कर्षे प्रणये सान्त्वना न ना ।प्रणिपातस्त्वनुनये त्वासारश्च सुहृद्बले ।प्रबन्धे गुम्फसन्दर्भेग्रन्थाश्च रचना न ना ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.38 · p. 195
प्रणीतिः स्यादनुनयः प्रश्रयः सांत्वनं तथा ।सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.

अनुनय as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् ननुप्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४९ ॥ Amarakośa 3.3.249
  • नामलिङ्गानुशासनम् खलुनिषेधवाक्यालङ्कारजिज्ञासानुनये खलु । Amarakośa 3.3.498
  • धरणिकोश नुनु वितर्केऽप्यनुनये प्रश्नातीतार्थयोश्च नु । न निषेधे इवात्यर्थे स्यादतीतेऽनुनयेऽपि च ॥ Dharaṇikośa 34.11.1
  • धरणिकोश ननुननु प्रश्नेऽप्यनुनये चानुज्ञानेऽवधारणे । नाना तु वर्जने प्रोक्तं नानानेकोभयार्थयोः ॥ Dharaṇikośa 34.11.2
  • धरणिकोश वैवि श्रेष्ठातीतनानार्थो बिः स्यात्पक्षी त्वनव्ययम् । वै स्यात्संबोधने पादपूरणेऽनुनयेऽपि च ॥ Dharaṇikośa 34.13.2
  • धरणिकोश किलकिलशब्दस्तु वार्तायां संभाव्येऽनुनयेऽरुचौ । Dharaṇikośa 34.17.1
  • धरणिकोश खलुखलु स्याद्वाक्यभूषायां जिज्ञासादौ निषेधने । खलु माने च वीप्सायां खलु चानुनये स्मृतः ॥ Dharaṇikośa 34.17.2
  • कोषकल्पतरु प्रणिपततिअसावभिसमो युद्धे प्रनेरनुनये विनेः । व्यसने नेर्वधेऽवान्न्यग्भावेऽथोदः स जन्मनि ॥ २२ ॥ Koṣakalpataru 3.5.22
  • कोषकल्पतरु नुउत्स्यात्प्रकाशप्रबलत्वशक्ति[244b] वियोगसामर्थ्यविलङ्घनेषु । अद्धा स्फुटे स्यान्नियमेऽथ नु स्या- त्प्रश्ने वितर्केऽनुनयेऽप्यतीते ॥ १०० ॥ Koṣakalpataru 5.1.100
  • कोषकल्पतरु हूम्कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोः पृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि । स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो- र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥ Koṣakalpataru 5.1.6
  • कोषकल्पतरु किलसंभाव्यवार्तानुनयेषु हेतौ किलेत्यलीकेऽप्यरुचौ प्रदिष्टम् । सद्वाक्यभूषाप्रतिषेधमान- ज्ञीप्सासु वीप्सासु खलु स्मरन्ति ॥ १८ ॥ Koṣakalpataru 5.1.18
  • शब्दरत्नावली नुन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
  • शब्दरत्नावली ननुननु प्रश्ने परकृतावधिकारे विनिग्रहे । सम्भ्रमानुनयानुज्ञागमन्त्रणेषु … ॥ Śabdaratnāvalī 8.1.42
  • शब्दरत्नावली वैवि स्याद्विगतनानार्थश्रेष्ठार्थेषु समुच्चये । वै पादपूरणे सत्यानुनयामन्त्रणेषु च ॥ Śabdaratnāvalī 8.1.46
  • शब्दरत्नावली हम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली किलकिल सम्भाव्यवार्त्तानुनयनिश्चिततुष्टिषु । खलु निश्चितजिज्ञासापदवाक्यादिपूरणे ॥ हेतावसहने गत्यां विशेषे च निगद्यते ॥ Śabdaratnāvalī 8.1.55
  • शब्दरत्नाकर खलुकिमु प्रश्ने विकल्पे च कुतः प्रश्ने च निह्नवे । निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ २२६७ ॥ Śabdaratnākara 5.2.2267
  • शब्दरत्नाकर ननुप्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु । नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २२७० ॥ Śabdaratnākara 5.2.2270
  • वैजयन्ती खलुनिषेधे वागलंकारे ज्ञीप्सनेऽनुनये खलु । तूष्णीमर्थे सुखे जोषं तर्हि स्यात्प्रश्न उत्तरे ॥ २० ॥ Vaijayantī 8.7.20