हेतु
hetuपुं · masc.In 17 kośas: 16 synonym verses, 4 as a nānārtha head word, 83 as a meaning of another word.
निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥ १५१३ ॥निदानमथ कार्यं स्यादर्थः कृत्यं प्रयोजनम् ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
अनुष्टुप्
genderपुंmasc.
मैत्रेयिका मित्रयुद्धं प्रत्ययाः सहकारिणः ।अथ हेतुरुपादानं व्याप्यं लिङ्गं च साधनम् ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
हेतुर्ना कारणं बीजं क्लीबे करणमित्यपि ।क्लीब आद्यं कारणं तु निदानं मूलवस्तु तत् ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् ।जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
उत्थानायतने हेतुः प्रत्ययश्च निगद्यते ।प्राग्रूपं भाविरोगस्य ज्ञापकं लक्षणं हि यत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
आकारस्त्विङ्गितं हेतुर्निमित्तं कारणं समम् ।निबन्धनं निदाने तु बीजं कार्यं तु तद्भवम् ॥ ३८६ ॥
अनुष्टुप्
genderपुंmasc.
सौगन्धिकश्च चक्षुष्या कुलाली च कुलत्थिका ।पुष्पकेतुश्च हेतुश्च रि(री?)तिपुष्पं च पौष्पकम् ॥ ५४९ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिनादः प्रतिशब्दः प्रतिध्वानं प्रतिश्रुतिः ।निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् ॥ १४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderपुंmasc.
निमित्तं कारणं योनिर्निदानञ्च निबन्धनम् ।बीजं हेतुश्च नामानि सप्तैव प्रथयन्ति वै ॥ २७५६ ॥
अनुष्टुप्
genderपुंmasc.
दैवं दृष्टमदृष्टञ्च भाग्यपर्याय ईरितः ।कारणं पुंसि हेतुः स्यात् करणं बीजमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् ।निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
genderपुंmasc.
अथ हेतुरुपादानं प्रत्ययाः सहकारिणः ।अनुमा त्वनुमाने स्याद्व्याप्यं लिङ्गं च साधनम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
तन्मूले तु पुमान्हेतुर्गच्छा वांछितराशयः ।गंडः कपर्दाश्चत्वारस्ते बोध्री पंच तद्वयम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगूहने ।उत्पत्तौ कारणे वादे निमित्ते वीजकर्मणि ॥ १३९ ॥
अनुष्टुप्
doubtful
पञ्चस्वेषु पदार्थेषु हेतुर्वररुचीरितः ।प्रयोजके स्वतन्त्रस्य कर्तुरित्यपि शाब्दिकाः ॥ १४० ॥
अनुष्टुप्
meaningsप्रयोजक
हेतु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् प्रमाणप्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । Amarakośa 3.3.106
- नामलिङ्गानुशासनम् निमित्तकलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ Amarakośa 3.3.76
- नामलिङ्गानुशासनम् प्रत्ययप्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥ Amarakośa 3.3.148
- नामलिङ्गानुशासनम् इतिइति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ २४६ ॥ Amarakośa 3.3.246
- नामलिङ्गानुशासनम् हिअहहेत्यद्भुते खेदे हि हेताववधारणे । Amarakośa 3.3.502
- हलायुधकोशः (अभिधानरत्नमाला) प्रत्ययप्रत्ययाः शपथज्ञानहेतुविश्वासनिश्चयाः । विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥ Abhidhānaratnamālā (Halāyudha) 5.848
- हलायुधकोशः (अभिधानरत्नमाला) अतस्अधरस्तादधरतः स्यादधस्तादधोऽधरे । अत इत्युच्यते हेतौ निन्दायां विस्मये वत ॥ ८७८ ॥ Abhidhānaratnamālā (Halāyudha) 5.878
- हलायुधकोशः (अभिधानरत्नमाला) हिप्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति । हि स्याद्विशेषणे हेतौ तु स्याद्भेदेऽवधारणे ॥ ८८१ ॥ Abhidhānaratnamālā (Halāyudha) 5.881
- हलायुधकोशः (अभिधानरत्नमाला) इतिसदा सना च नित्यत्वे स्वस्ति स्यान्मङ्गलादिषु । इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु ॥ ८८७ ॥ Abhidhānaratnamālā (Halāyudha) 5.887
- धरणिकोश बीजऊर्जो बले तथोत्साहे ऊर्जो मासश्च कार्तिकः । बीजं रेतसि हेतौ च बीजमङ्कुरकारणम् ॥ Dharaṇikośa 7.2.3
- धरणिकोश कारणकारणं घातने हेतावीरिणं शून्यमूषरम् । वारुणी सुराप्रतीच्योः सरणिः पङ्क्तिमार्गयोः ॥ Dharaṇikośa 14.1.8
- धरणिकोश प्रमाणप्रमाणमनुमानादौ हेतुमर्यादयोरपि । सम्यक्प्रवक्तृपुरुषे प्रमाणं मानशास्त्रयोः ॥ Dharaṇikośa 14.3.13
- धरणिकोश निमित्तप्रसूतं कुसुमे जाते निमित्तं हेतुचिह्नयोः । कलिते स्वीकृतज्ञाते [ग्रथिते क्रान्त?]गुम्फिते ॥ Dharaṇikośa 15.1.23
- धरणिकोश प्रयोजनप्रयोजनं कार्यहेत्वोरायोधनं रणे हतौ । पृथग्जनौ नीचमूर्खौ आत्मयोनी विधिस्मरौ ॥ Dharaṇikośa 19.1.22
- धरणिकोश प्रत्ययप्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा । ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥ Dharaṇikośa 25.3.22
- धरणिकोश इतिइति हेतुप्रकरणप्रकाशादिसमाप्तिषु । निदर्शने प्रकारे चानुकर्षे च प्रकीर्तितः ॥ Dharaṇikośa 34.7.9
- धरणिकोश हिहि हेतौ स्याद्विशेषार्थे एकार्थे पूरणेऽपि च । ही विषादे विस्मये स्याद्दुःखहेत्वोरपि स्मृतः ॥ Dharaṇikośa 34.21.3
- कोषकल्पतरु नि-दिश्प्रतेर्विर्विनिमये व्याङ्युक्प्रसारण-विकासयोः । उपाङः परिणामे संग्रहेऽभ्याङ उपक्रमे ॥ संप्राद्ददातिराम्नाये दानेऽथोपायने ह्युपात् । आत्मनेपदवानाङो ददातिर्नित्यमीरितः ॥ [186a]स्वास्यप्रसारादन्यत्र स आङस्तु ग्रहे मतः । नितो हेतौ रोगबोधे प्रैषे तु व्याङ्परो दिशिः ॥ ५४ ॥ Koṣakalpataru 3.5.54
- कोषकल्पतरु प्रयुजियुजिर्योजयतिश्च प्रात्प्रेरणे च निदर्शने । कार्ये हेतावनोः प्रश्ने समः संबन्ध आङ्परः ॥ २२ ॥ Koṣakalpataru 3.5.22
- कोषकल्पतरु चसमुच्चयान्वाचयनिश्चयान्यो- न्ययोगपक्षान्तरसंग्रहेषु । स्यात्पादपूर्तौ च समाहृतौ चः स्यात्तुल्ययोगे विनियुक्तिहेत्वोः ॥ ८४ ॥ Koṣakalpataru 5.1.84
- कोषकल्पतरु इतिइति प्रकारादिसमाप्तिहेतु- प्रकाशदृष्टान्तविनिर्णयेषु । स्वरूपसांनिध्यपरानुकर्षे तथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥ Koṣakalpataru 5.1.95
- कोषकल्पतरु किलसंभाव्यवार्तानुनयेषु हेतौ किलेत्यलीकेऽप्यरुचौ प्रदिष्टम् । सद्वाक्यभूषाप्रतिषेधमान- ज्ञीप्सासु वीप्सासु खलु स्मरन्ति ॥ १८ ॥ Koṣakalpataru 5.1.18
- कोषकल्पतरु बैजिकस्याद्धैनुकं स्त्रीकरणे गवौघे धातौ गिरेर्हेम्नि च गैरिकं स्यात् । सद्योंङ्कुरे शिग्रुभवे च तैले हेतौ तथा बैजिकमुक्तमत्र ॥ ७३ ॥ Koṣakalpataru 6.1.73
- कोषकल्पतरु बीजस्त्री रेणुकागर्दभशाकयोः स्याद् बीजं तु तत्त्वेऽङ्कुरकारणे च । आधानहेत्वोरपि रेतसि स्या- त्संनद्धसम्यग्भृतयोस्तु सञ्जः ॥ २३ ॥ Koṣakalpataru 6.7.23
- कोषकल्पतरु प्रमाणप्रमाणं ध्रुवे हेतुनीत्यादिशास्त्रे परिच्छेदने चैकतायां तथोक्तम् । प्रमातर्यपि प्रायशः क्लीब ऐक्येऽ- ऽप्यथो कोङ्कणं शस्त्रभेदेऽपि च * ॥ ३० ॥ Koṣakalpataru 6.15.30
- कोषकल्पतरु कारणनिर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तने कुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः । दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणं नागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥ Koṣakalpataru 6.15.32
- कोषकल्पतरु निमित्तउदात्त उक्तः स्वरभेदकाव्या- लंकारहृद्येषु महाशये च । हेतौ निमित्तं किल लक्षणेऽपि धत्तूर उन्मत्तमुशन्ति पुंसि ॥ १३ ॥ Koṣakalpataru 6.16.13
- कोषकल्पतरु निदानतुरंगभूषाग्रहणार्थके च हेतौ निदानं गदनिर्णयेऽपि । स्याद्वत्सदाम्न्यप्यथ पुष्पवाट्यां प्रयोजने भूपतिकेलिभूमौ ॥ ३६ ॥ Koṣakalpataru 6.21.36
- कोषकल्पतरु प्रयोजननीचे च मूर्खेऽथ कृ[20b]तौ च हेतौ प्रयोजनं स्याद्बलिदानवे तु । वैरोचनः स्यात्सुगतेऽर्कपुत्रे विरोचनस्त्वग्निरवीन्दुषु स्यात् ॥ ६ ॥ Koṣakalpataru 6.21.6
- कोषकल्पतरु कार्यवैश्ये तथा स्वामिनि चार्य उक्तो हेतौ फले कार्यमुशन्ति सन्तः । सूर्यो रवावौषधिसूर्यपत्न्योः । सूर्या [तु] शौर्यं किल शक्तिवाची ॥ १५ ॥ Koṣakalpataru 6.26.15
- कोषकल्पतरु तन्त्रप्रसादनायामपि देवतादेः स्याद्गुप्तवादेऽप्यथ तोत्रमाहुः । स्याद्वेणुकप्राजनयोरथ स्या- त्तन्त्रं कुटुम्बस्य कृतौ च हेतौ ॥ ३६ ॥ Koṣakalpataru 6.27.36
- कोषकल्पतरु संभवहेतौ तथाधारत ईरितोऽय- माधेयकस्यानतिरिक्ततायाम् । स्याद्वान्धवो बन्धुसुहृद्गतो ना पञ्चत्वमन्तेऽपि च पञ्चभावे ॥ २७ ॥ Koṣakalpataru 6.29.27
- नानार्थार्णवसंक्षेप अर्थहृदये साधने मोक्षे कार्यैश्वर्यनिवृत्तिषु । वाच्ये हेतावभिप्राये याचने च हलायुधः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.2.5
- नानार्थार्णवसंक्षेप बीजवृक्षपत्रे केकिपिञ्छेऽप्यथ बीजं फलास्थनि । अन्ने रेतस्यपत्ये च हेतावङ्कुरकारणे ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 2.3.44
- नानार्थार्णवसंक्षेप प्रत्ययप्रावारभेदे निस्तारस्तूणीरे कश्चिदब्रवीत् । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १२२ ॥ Nānārthārṇavasaṃkṣepa 3.2.122
- नानार्थार्णवसंक्षेप निमित्तअजयो नाभिगर्ताण्डे रभसस्त्वाह शब्दवित् । गन्धर्वकृच्छ्रयोः स्यात्तु निमित्तं हेतुलक्षयोः ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 3.3.41
- नानार्थार्णवसंक्षेप प्रमाणप्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 3.3.45
- नानार्थार्णवसंक्षेप कारणतद्देशसम्भवे तु स्याद् द्वयोरेष तुरङ्गमे । क्लीबं तु कारणं हेतौ रभसस्त्वभिधानवित् ॥ ४३९ ॥ Nānārthārṇavasaṃkṣepa 4.439
- नानार्थार्णवसंक्षेप बैजिकमातृवाहकसंज्ञे स्याज्जन्तौ सद्योङ्कुरे पुनः । बैजिको ना शिग्रुतैलहेत्वोस्तु रभसो नपि ॥ १२६४ ॥ Nānārthārṇavasaṃkṣepa 4.1264
- नानार्थार्णवसंक्षेप प्रयोजनकार्ये हेतौ प्रवचनं पुनर्व्याख्यानवेदयोः । प्रशस्तवचने च स्याच्छास्त्र इत्याह सज्जनः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
- परमानन्दीयनाममाला हिहे संबुद्धौ हं च खेदे क्रोधोक्तौ संस्मृतावपि । हि हेतौ पादपूर्तौ च क्षः क्षेत्रे रक्षसि क्षये ॥ ४३ ॥ Paramānandīyanāmamālā 1.43
- परमानन्दीयनाममाला कार्यऋग्भेदे वेदवित्पाठे कण्ठः स्यान्मदनद्रुमे । घोषे गले समीपे च कार्यं हेतौ प्रयोजने ॥ ८९ ॥ Paramānandīyanāmamālā 5.7.89
- शब्दरत्नावली तर्कतर्को वितर्काकाङ्क्षोहहेतुशास्त्रेषु दृश्यते ॥ Śabdaratnāvalī 7.1.10
- शब्दरत्नावली बीजबीजं स्यादङ्कुरे हेतौ तत्त्वाधाने च शुक्रके । स्त्री सर्जूरभिसारे च हारे वणिजि विद्युति ॥ Śabdaratnāvalī 7.8.17
- शब्दरत्नावली करणकरणं कर्मणि क्षेत्रे हेतौ च साद्वरादिषु । हस्तलेपे नृत्यगीतप्रभेदे साधनेऽपि च ॥ Śabdaratnāvalī 7.15.27
- शब्दरत्नावली कारणवराट्यामपि गुञ्जायां काकनीत्यपि कुत्रचित् । कारणं करणे हेतौ यातनायान्तु कारणा ॥ Śabdaratnāvalī 7.15.30
- शब्दरत्नावली प्रमाणप्रघाणस्ताम्रकलसे चालिन्दे लोहमुद्गरे । प्रमाणं नित्यमर्यादाशास्त्रहेतुप्रमातृषु ॥ Śabdaratnāvalī 7.15.46
- शब्दरत्नावली प्रयोजनप्रणिधानं समाधौ स्यात्प्रयत्ने च प्रवेशने । प्रयोजनं कार्यहेत्वोः पलाशी राक्षसे द्रुमे ॥ Śabdaratnāvalī 7.20.115
- शब्दरत्नावली प्रत्ययआचारशपथाधीनच्छिद्रविश्वासहेतुषु । पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥ प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् । पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥ प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् । प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥ Śabdaratnāvalī 7.26.44
- शब्दरत्नावली तन्त्रकुस्तुम्बुरुण्यतिच्छत्रे छत्रः पर्वतभिद्यपि । तन्त्रं प्रधाने सिद्धान्ते तन्त्रवाये परिच्छदे ॥ कुटुम्बकृत्ये हेतौ स्यादुभयार्थप्रयोजके । इतिकर्तव्यतोषध्योः श्रुतिशाखान्तरेऽपि च ॥ शास्त्रभेदे प्रबन्धे च तन्त्री वीणागुणे स्त्रियाम् । गुडूची देहशिरयोर्नदीभिद्युवतीभिदोः ॥ तन्त्रा स्यात्तु प्रमीलायां निद्रायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.27.13
- शब्दरत्नावली सम्भवशात्रवः पुंसि शत्रौ स्यात्क्लीबं तद्भावनन्दयोः । षाडवो गालभेदे स्याद्रसभेदे भवेत्पुमान् ॥ सम्भवो मेलके हेतौ जन्मन्यांधेयधारणे । सुग्रीवो विष्णुतुरगे सुन्दरे च कपीश्वरे ॥ Śabdaratnāvalī 7.29.36
- शब्दरत्नावली हिही पूरणाश्चर्ययोः स्याद्धि हेतावनधारणे । Śabdaratnāvalī 7.33.2
- शब्दरत्नावली इतिपक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे । अस्तु प्रकर्षे पीडायां प्रशंसायाञ्च लङ्घने ॥ असम्प्रत्यभ्यनुज्ञानेऽधिक्षेपासूययोरपि । इति प्रकरणे हेतौ परकृत्यनुकर्षयोः ॥ Śabdaratnāvalī 8.1.23
- शब्दरत्नावली सर्वथायथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥ अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥ Śabdaratnāvalī 8.1.36
- शब्दरत्नावली यत्तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥ यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥ Śabdaratnāvalī 8.1.37
- शब्दरत्नावली नुन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
- शब्दरत्नावली खलुकिल सम्भाव्यवार्त्तानुनयनिश्चिततुष्टिषु । खलु निश्चितजिज्ञासापदवाक्यादिपूरणे ॥ हेतावसहने गत्यां विशेषे च निगद्यते ॥ Śabdaratnāvalī 8.1.55
- शब्दरत्नावली हीही विस्मये विषादे च दुःखहेतुशुचोरपि । हे च सम्बोधनाह्वानासूयादम्भादरेषु च ॥ Śabdaratnāvalī 8.1.62
- शब्दरत्नाकर अर्थअजः पितामहे विष्णौ हरे छागे रघोः सुते । अर्थो धने शब्दवाच्ये शास्त्रे हेतौ प्रयोजने ॥ १८६२ ॥ Śabdaratnākara 4.1.1862
- शब्दरत्नाकर मूलअंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे । मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥ Śabdaratnākara 4.1.1980
- शब्दरत्नाकर कारणकैतवं कपटे द्यूते कारणं हेतुजन्मनोः । बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥ Śabdaratnākara 4.1.2071
- शब्दरत्नाकर प्रत्ययप्रदरा बाणरुग्भङ्गाः प्रतापौ पौरुषातपौ । प्रत्ययः ख्यातिविश्वासशपथज्ञानहेतुषु ॥ २१२६ ॥ Śabdaratnākara 4.1.2126
- शब्दरत्नाकर प्रमाणप्रमाणं हेतुविश्वासशास्त्रेयत्तासु शासने । मर्यादायां प्रपञ्चस्तु विपर्यासे सुविस्तरे ॥ २१२८ ॥ Śabdaratnākara 4.1.2128
- शब्दरत्नाकर हिसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः । हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥ Śabdaratnākara 5.1.2256
- शब्दरत्नाकर तद्तद्धेतौ त्रिष्वमुष्मिन् स्याद् यद्धेतौ प्रकृते त्रिषु । ह हि तु स्म च वै पादपूरणेऽपि प्रयुज्यते ॥ २२५९ ॥ Śabdaratnākara 5.1.2259
- शब्दरत्नाकर अनुअनु प्रकारे वीप्सायां पश्चाल्लक्षणहेतुषु । अति प्रशंसातिक्रान्त्योरधिकार्थेऽपभाषणे ॥ २२६२ ॥ Śabdaratnākara 5.2.2262
- शब्दरत्नाकर आहोआहो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः । इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु ॥ २२६४ ॥ Śabdaratnākara 5.2.2264
- तन्त्राभिधान हिहः कोपे धारणेऽपि स्यात् हः शूलिनि समीरितः । हिः पद्यपूरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३७ ॥ Tantrābhidhāna 3.37
- त्रिकाण्डशेष बीजअगस्त्ये च हरीतक्यां रुजा स्याद्रोगभङ्गयोः । मुस्तेऽपि वनजो बीजं रेतस्तत्त्वार्थहेतुषु ॥ ८७ ॥ Trikāṇḍaśeṣa 3.3.87
- त्रिकाण्डशेष कारणकोणोऽश्रो वाद्यलगुडे वधे हेतौ च कारणम् । ग्रहणं स्वीकृतौ हस्ते गुणः स्याद्रज्जुसूदयोः ॥ १२५ ॥ Trikāṇḍaśeṣa 3.3.125
- त्रिकाण्डशेष निमित्तनिमित्तं हेतुचिह्नाङ्गशकुनोद्देश्यपर्वसु । प्रस्तुतः कुब्जिते पाणौ जङ्घायां स्त्री गते त्रिषु ॥ १६३ ॥ Trikāṇḍaśeṣa 3.3.163
- त्रिकाण्डशेष अङ्गपुनरर्थेऽङ्ग भोर्थे च दुष्ट्यर्थप्रशंसयोः । पादपूरणे पक्षान्तरे हेतौ विनिश्चये ॥ ४६५ ॥ Trikāṇḍaśeṣa 3.3.465
- वैजयन्ती अर्थअर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ ३ ॥ Vaijayantī 6.1.3
- वैजयन्ती प्रत्ययप्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु । विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥ Vaijayantī 7.1.51
- वैजयन्ती कारणकारणं हेतुवधयोः कारकं हिंसकेपि च । कीलालं रुधिरे तोये कुहरं गह्वरे बिले ॥ ७ ॥ Vaijayantī 7.3.7
- वैजयन्ती निमित्तदुकूलं शुक्लवस्त्रेऽपि द्योतनं दीपनेऽक्ष्णि च । धाराग्रमवतारेऽश्रौ निमित्तं हेतुलक्षयोः ॥ १८ ॥ Vaijayantī 7.3.18
- वैजयन्ती प्रमाणनवसूतगवीदुग्धे पीयूषममृतेऽपि च । प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ॥ २३ ॥ Vaijayantī 7.3.23
- वैजयन्ती प्रयोजननिर्भर्त्सनमलक्तेऽपि मोक्षे निश्रेयसं शुभे । शस्त्रे युद्धे प्रहरणं कार्ये हेतौ प्रयोजनम् ॥ ८ ॥ Vaijayantī 8.3.8
- वैजयन्ती हिंहिं स्याद्विशेषणे हेतौ हि हेताववधारणे । आमन्त्रणे भर्त्सने हुं हूं संप्रश्नवितर्कयोः ॥ ९ ॥ Vaijayantī 8.7.9
- वैजयन्ती तद्तद्धेतौ त्रिष्वमुष्मिन् स्याद्यद्धेतौ प्रगते त्रिषु । ह ह्यु तु स्म च वै पादपूरणेऽपि प्रयुंजते ॥ ११ ॥ Vaijayantī 8.7.11
- वैजयन्ती अनुअति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे । पश्चाद्धेतूनसाम्येषु भागे वीप्साप्रकारयोः ॥ १५ ॥ Vaijayantī 8.7.15
- वैजयन्ती अतस्लक्षणेऽप्यनु वीप्सादित्रयेऽप्यभिमुखेप्यभि । अतो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः ॥ १६ ॥ Vaijayantī 8.7.16
- वैजयन्ती इतिइति हेतुप्रकरणप्रकारादिसमाप्तिषु । विस्तारेंऽगीकृतावूरी स्यादुरर्यूररी यथा ॥ १७ ॥ Vaijayantī 8.7.17