कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रोधिन्

krodhinवि · adj.

In 7 kośas: 7 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.58 · p. 19
ईर्ष्यालुः कुहनोऽक्षान्तिरीर्ष्या क्रोधी तु रोषणः ॥ ३९१ ॥अमर्षणः क्रोधनश्च चण्डस्त्वत्यन्तकोपनः ।
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.180 · p. 7
शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः ।वनंतपः स्वजातिद्विट्कृतज्ञो भल्लहश्च सः ॥ १७९ ॥दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।मण्डलः कपिलो ग्राममृहश्चेन्द्रमहोऽपि च ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.361 · p. 43
अशनाया बुभुक्षा प्सा जिघत्साक्षुत्क्षुधाः समाः ।कोपनः क्रोधनः क्रोधी रोषणः स्यादमर्षणः ॥ ३६१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.56 · p. 6
द्विजिह्वो मत्सरी नीचः पुरोभागी तु दोषदृक् ।खलानां तु समूहे स्तः खल्या च खलिनी स्त्रियौ ॥क्रुद्धस्तु रुषितो रुष्टश्चक्षाणस्तु कलिप्रियः ।रोषणः क्रोधनः क्रोधी कोपनोऽमर्षणः सुरुट् ॥ ५६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.581 · p. 75
ईष्यालुः कुहनो ज्ञेय ईर्ष्याऽक्षान्तिस्तथा स्मृतः ।क्रोधनः कोपनः क्रोधी रोषणश्चाप्यमर्षणः ॥ ५८१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2308 · p. 374
कुकुरः कुर्करः क्रोधी कौलेयकश्च कुक्कुरः ।शालावृकः कृतज्ञश्च कपिलो वक्रवालधिः ॥ २३०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.35 · p. 191
क्षन्ता सहिष्णुः, सहने, ईर्ष्यालुः कुहने स्मृतः ।ईर्ष्युश्च, क्रोधने क्रोधी, बुभुक्षायां तु रोचकः ॥ ३५ ॥
अनुष्टुप्
genderविadj.

क्रोधिन् as a meaning in nānārtha verses

  • तन्त्राभिधान कयाम्यकर्णादिकः क्रोधी वायुर्वह्निर्गदी रुजा । यादवेशो मुरारिश्च कामाङ्गः का-र्णक स्मृतः ॥ १८ ॥ Tantrābhidhāna 6.18