रुरु
ruruपुं · masc.In 16 kośas: 19 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः ।वनंतपः स्वजातिद्विट्कृतज्ञो भल्लहश्च सः ॥ १७९ ॥दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।मण्डलः कपिलो ग्राममृहश्चेन्द्रमहोऽपि च ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
इन्द्रवज्रा
genderपुंmasc.
मुहुःक्रोधी रसायायी शिवारिः सूचको रुरुः ।वनन्तपः स्वजातिद्विड् दीर्घनादश्च मण्डलः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
ध्वजोऽतिभारगो मिश्रशब्दोऽप्यथ महामृगाः ।वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
देहेन बहुशृङ्गाग्रो मेघान्ते त्यजति स्वयम् ।शृङ्गं रौति रुरुस्तेन सोम्भस्तटचरः सदा ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
रुरुचीनैणहरिणपृषताः शंवरः पुनः ।सृमरश्च चमूरुश्चेत्येते स्युरजिनाकराः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
चमूरुः स्याच्चित्रमृगो रुरुर्मेघान्तशृङ्गमुक् ।कदली कन्दली चीनश्चमूरु-प्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ।रिष्यर्श्य-रङ्कु * * * * * * * * * * *अष्टमश्चाष्टमश्च स्यात्पश्वङ्गावयवेऽन्यवत् ।* * * * * * * * रोहिताद्या मृगाः परे ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
यज्ञार्हः शम्बरः स्वल्पे पृषदस्तु स बिन्दुमान् ।महो रुरुः कृष्णसार एणको विपुलोन्नतः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
आवत्सरात्तु जिङ्कः स्थाद्दशवर्षः कपोतनः ।पक्षवर्षे तु कालीनो रुरुर्विंशतिवत्सरः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
वातायुः कृष्णसारश्च रुरुमुख्यास्तु तद्भिदः ।सिंहो मृगेन्द्रः पारीन्द्रो हर्यक्षः केसरी हरिः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
अस्थिभुक् भल्लहश्चैव भषको भषणो रुरुः ।शिवारिः सूचकः रात्रिजागरश्च रतव्रणः ॥ २३१० ॥
अनुष्टुप्
genderपुंmasc.
मृगभेदा न्यङ्कुरङ्कुरुरुरोहिषरौहिषाः ।चमूरुचमरचीनाः समूरैणर्श्यरोहिताः ॥ २३३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
मृगभेदाः कृष्णसार-रुरु-सम्बर-रौहिषाः ।गोकर्ण-रङ्क-चमर-न्यङ्कु-गन्धर्व-रोहिताः ॥
अनुष्टुप्
genderपुंmasc.
महापैङ्गरुरुव्यालिकहोलकमठांशवः ।दाल्भ्यः सत्यतपाः पैलो जाबालिश्च सनातनः ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
राजीवो राजिमान् पृष्ठे कृष्णसारो महान् रुरुः ।शोणास्यो राजयः पृष्ठे यस्य सन्ति स रोहितः ॥ ६८४ ॥
अनुष्टुप्
genderपुंmasc.
अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् ।अधिमुख्यं श्रेष्ठिजातं दमयन्ती महाकपिः ।बोधिर्ब्रह्मा महाबोधिर्वानरः शरभो रुरुः ॥
अनुष्टुप्
genderपुंmasc.
रुरुर्महान् कृष्णसारः कुरंगो हरिणो महान् ।रोहिदृश्यो हरिणवन्मृदुशृंगः प्रतापसः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
गुरुर्निषेकादिकरे * ताता-दिके सुराणामपि मन्त्रिणि स्यात् ।विशेष्यवद्दुर्जरकेऽलघिष्ठेपृथौ रुरुर्दैत्यविशेषरङ्क्वोः ॥ ६५ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा
रुरु as a meaning in nānārtha verses
- तन्त्राभिधान ढअ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी, ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री, ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी, ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी, अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः, घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः, ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः, ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः, थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी, प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी, म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी, व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः, ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥ Tantrābhidhāna 4.1