रोषण
roṣaṇaवि · adj.In 10 kośas: 7 synonym verses, 3 as a nānārtha head word, 3 as a meaning of another word.
ईर्ष्यालुः कुहनोऽक्षान्तिरीर्ष्या क्रोधी तु रोषणः ॥ ३९१ ॥अमर्षणः क्रोधनश्च चण्डस्त्वत्यन्तकोपनः ।
अनुष्टुप्
genderविadj.
अशनाया बुभुक्षा प्सा जिघत्साक्षुत्क्षुधाः समाः ।कोपनः क्रोधनः क्रोधी रोषणः स्यादमर्षणः ॥ ३६१ ॥
अनुष्टुप्
genderविadj.
क्षमावांश्चापि शक्तः स्यादथ रोचिष्णुरोचनौ ।शरारुर्घातुको हिंस्रो रुष्टेऽमर्षणरोषणौ ॥ ६२ ॥
अनुष्टुप्
genderविadj.
द्विजिह्वो मत्सरी नीचः पुरोभागी तु दोषदृक् ।खलानां तु समूहे स्तः खल्या च खलिनी स्त्रियौ ॥क्रुद्धस्तु रुषितो रुष्टश्चक्षाणस्तु कलिप्रियः ।रोषणः क्रोधनः क्रोधी कोपनोऽमर्षणः सुरुट् ॥ ५६ ॥
अनुष्टुप्
genderविadj.
ईर्षालुकुहनौ तुल्यौ क्रोधनामर्षणौ समौ ।रोषणः क्रोधवाञ्चैव चण्डः स्याद्बहुकोपनः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
ईष्यालुः कुहनो ज्ञेय ईर्ष्याऽक्षान्तिस्तथा स्मृतः ।क्रोधनः कोपनः क्रोधी रोषणश्चाप्यमर्षणः ॥ ५८१ ॥
अनुष्टुप्
genderविadj.
खर्जूरी रोषणः क्षुद्रपरुषश्चिररोहकः ।खरकायो नीलपत्रः खरपर्णः परूषकः ॥ ५४९ ॥
अनुष्टुप्
genderपुंmasc.
सुग्रीवे करमर्दके भिषजि च श्रीशे सुषेणः पुमा-************* द्रोषणः कोपने ।कुष्ठेऽन्त्ये पशुशृङ्गनागरदयोस्त्रय्यां विषाणं स्त्रियांकाकोल्यामजशृङ्गिकास्वथ करेणुः स्याद्गरेणुस्तथा ॥ ३५ ॥
शार्दूलविक्रीडितम्metre not read in every line
meaningsकोपन
मार्गणो याचके बाणे क्लीबमन्वेषणार्थयोः ।यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च ॥रवणः शब्दने तीक्ष्णे भण्डके चञ्चलेऽपि च ।रमणं पटुमूले स्यान्नार्यां स्त्री स्यात्प्रिये पुमान् ॥रोषणः क्रोधने हेमघर्षणाश्मनि पारदे ॥
अनुष्टुप्
ना स्वर्णघर्षणग्राव्णि रोषणः सरुषि त्रिषु ।रेवटो वेणुवातूलविषवैद्येषु रेवटम् ॥ २१५२ ॥
अनुष्टुप्
रोषण as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप रोषाणरोषाणस्तु पुमान् स्वर्णकषणग्राव्णि पारदे । रोषणे भेद्यवत् प्रोक्तो रोषशीलो हि रोषणः ॥ १५३७ ॥ Nānārthārṇavasaṃkṣepa 4.1537
- शब्दरत्नावली गातुगतिर्दशायां मार्गे च ज्ञाने यात्राभ्युपाययोः । नाडीव्रणपथे दाने यातविज्ञातयोर्गतम् । गातुः पुंसि पिके भृङ्गे गन्धर्वे रोषणे त्रिषु ॥ Śabdaratnāvalī 7.16.10
- वैजयन्ती रोषाणरोषाणो रोषणे स्वर्णघर्षणग्राव्णि पारदे । रौहिषं रक्तकत्तृणे मत्स्यभेदे मृगे च ना ॥ ७१ ॥ Vaijayantī 7.5.71