कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षुध्

kṣudhस्त्री · fem.

In 16 kośas: 20 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1372 · p. 52
क्षुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् ॥ १३७२ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.94 · p. 4
चोरे तु चोरडो रात्रिंचरो याच्ञा तु भिक्षणा ॥ ९३ ॥अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ ।भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनास्रवाः ॥ ९४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 तु (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.54
अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान् ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.361 · p. 43
अशनाया बुभुक्षा प्सा जिघत्साक्षुत्क्षुधाः समाः ।कोपनः क्रोधनः क्रोधी रोषणः स्यादमर्षणः ॥ ३६१ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.100 · p. 75
बुभुक्षा चाथना क्षुच्च जिघत्साऽऽशिशिषा पचिः ।राजलौल्यं तु काहालं तपसि … ॥ १०० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
क्षुत् क्षुधा तृट् तृषा तर्षो जमनं जेमनं भवेत् ।ऋषभो वृषभः शण्ढः शण्डः षण्डश्च दृश्यते ॥ २३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.117 · p. 102
कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः ।अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.302 · p. 166
वाटिकापर्पटाद्याः स्युः कर्चर्याद्याः प्रभक्षकाः ।अशनाया बुभुक्षा क्षुत् क्षुधा स्याद्रुचिरित्यपि ॥ ३०२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.202 · p. 97
इच्छान्नस्याशनाया स्त्री जिघत्सा क्षुत्क्षुधा रुचिः ।उदन्या स्त्री पिपासा च तृषा-तृष्णा-तृषोऽम्बुनः ॥ २०२ ॥
अनुष्टुप्
genderस्त्रीfem.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.275 · p. 19
सोहालिका पूरिकाख्या गुञ्झः पक्वान्नगुच्छलः ।मन्थः सक्तुः चिपिटकः पृथुकः क्षुत्क्षु[क्षु]धाभिधा ॥ २७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 1 पृथु (syllable split)
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.54 · p. 39
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.583 · p. 75
बुभुक्षा तु क्षुधा क्षुत् च रोचकश्च रुचिस्तथा ।अशनाया जिघत्सा च बुभुक्षावाचका अमी ॥ ५८३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2494 · p. 404
सपत्राकृतिनिष्पत्राकृती स्यातां प्रपीडने ।क्षुज्जाठराग्निजा बाधा व्यापादो द्रोहचिन्तनम् ॥ २४९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.113 · p. 145
मथितन्तु निरम्बु स्यात् त्रितयं दधिसम्भवम् ।मस्तुर्ना दधिजे मण्डे पेयूषस्तु नवं पयः ।स्त्रीक्षुत् क्षुधा वुभुक्षा स्यादशनायाः च सा स्मृता ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.36 · p. 191
रुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च ।क्षुदसहे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1442 · p. 174
चर्वणं भक्षणं प्सानं खादनं चादनं समम् ।क्षुद्बुभुक्षाशनाया च जिघत्सा च क्षुधा च सा ॥ १४४२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1703 · p. 205
प्रीणनं तर्पणं तृप्तिर्धावनं परिशोधनम् ।सेवनं सीवनं स्यूती रक्ष्णस्त्राणे क्षुधा क्षुधि ॥ १७०३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.182 · p. 98
बुभुक्षेच्छाशनाया क्षुज्जिघत्साशिशिषा पचिः ।राज्यलौल्यं तु कौहोलं तपसीच्छा प्रशान्तिकम् ॥ १८२ ॥
अनुष्टुप्
genderस्त्रीfem.