कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुरोगामिन्

purogāminपुं · masc.

In 15 kośas: 18 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.499 · p. 23
सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ ॥प्रष्ठोऽथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः ।प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि ॥ ४९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वे (wrong syllable)
genderपुंmasc.doubtful
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.180 · p. 7
शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः ।वनंतपः स्वजातिद्विट्कृतज्ञो भल्लहश्च सः ॥ १७९ ॥दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।मण्डलः कपिलो ग्राममृहश्चेन्द्रमहोऽपि च ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.72
पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः ।पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.317 · p. 95
जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः ।शुनी तु सरमा श्वालिविचरो ग्रामसूकरः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.338 · p. 97
दौवारिको वेत्रधरः क्षत्ता द्वास्थश्च दर्शकः ।पुरोधास्तु पुरोगामी पुरोहितपुरोगमौ ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 59 · p. 6
कुक्कुरस्तु पुरोगामी रतिकीलितविग्रहः ।कृतज्ञः सरमापुत्रः सारमेय इतीर्यते ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.241 · p. 115
अग्रेसरोग्रे भविता पुरोगो नायकोऽपि च ।पुरोगमः पुरोगामी स चैवाग्राग्रतः सरः ॥ २४१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.41 · p. 206
कृतज्ञः स्यात्पुरोगामी स्यादिन्द्रमहकामुकः ।कपिलो भषको यक्षो ग्रामार्थेभ्यो मृगार्थकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 262
साहायकं तु साहाय्यं समूहे तु सहायता ।पुरोगमः पुरोगः स्यात्पुरोगामी पुरःसरः ॥ ९६ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.101 · p. 21
जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः ।शुनी तु सरमा श्वाली विचरो ग्रामसूकरः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.164 · p. 122
पुरोगोऽग्रसरश्चापि पुरोगाम्यग्रतःसरः ।प्रष्ठः पुरोगमश्चैवाभ्यागतोऽपि विभाव्यते ॥ १६४ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.17 · p. 36
पत्तिः पदातिः पदगः पुरोगामी पदातिकः ।भटा योधाश्च योद्धारः सैन्याश्च सैनिका अपि ॥ १७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.777 · p. 112
पुरोगमः पुरोगामी प्रष्ठोऽग्रतःसरस्तथा ।अग्रसरः पुरोगश्च ह्यग्रेगूश्च पुरःसरः ॥ ७७७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2309 · p. 374
इन्द्रमहश्चन्द्रमहस्तथेन्द्रमहकामुकः ।वनंतपः पुरोगामी मृगदंशश्च मण्डलः ॥ २३०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्द्र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.109 · p. 197
प्रष्ठे सरोऽग्रेऽग्र-पुरः-परतो गम-गामि-गाः ।पुरस्तः आवेशेके तु स्तः प्राघूर्णक-प्राघुणौ ॥ १०९ ॥
अनुष्टुप्metre not read in every line
genderविadj.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1364 · p. 165
अन्वग्गाम्यनुगामी च पुरोगामी पुरःसरः ।पुरोगोऽग्रेसरः प्रष्ठश्चाग्रतःसर इत्यपि ॥ १३६४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.70 · p. 70
जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः ।कौलेयकोऽस्थिखादश्च भवनो भलुहोऽपि च ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.146 · p. 116
पुरोगमः पुरोगामी यस्त्वलं यात्यरीन् प्रति ।सोऽभ्यमित्र्योऽभ्यमित्रीणोऽप्यभ्यमित्रीय इत्यपि ॥ १४६ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.402 · p. 60
पुरोगामी शुनि द्वे स्यात् त्रिषु तु स्यात् पुरस्सरे ।पूर्णपात्रस्तु नृनपोरुत्सवेषु सुहृज्जनैः ॥ ४०२ ॥
अनुष्टुप्

पुरोगामिन् as a meaning in nānārtha verses

  • कोषकल्पतरु प्रष्ठकुष्ठं तु रोगेऽपि सुगन्धभेदे गोष्ठी ********* । संलापसंसत्सु चरमे तु गोस्थले- ऽथाधमेऽप्यसारे च दुष्टः स्यात् । प्रष्ठः पुरोगामिनि च प्रशस्ये चण्डालिकासंज्ञक औषधे स्त्री । ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्ये मासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥ Koṣakalpataru 6.11.57