चमू
camūस्त्री · fem.In 18 kośas: 30 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ ॥कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।वरूथिना चमूश्चक्रं स्कन्धवारोऽस्य तु स्थितिः ॥ ७४६ ॥शिबिरं रचना तु स्याद्व्यूहो दण्डादिको युधि ।
अनुष्टुप्
genderस्त्रीfem.
सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ७४८ ॥अनिकिनी च पत्तेः स्यादिभ्याद्यैस्त्रिगुणैः क्रमात् ।दशानिकिन्येऽक्षौहिणी सज्जनं तूपरक्षणम् ॥ ७४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable); pāda 3, syllable 6 क्षौ (wrong syllable)
genderस्त्रीfem.
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
अनुष्टुप्
genderस्त्रीfem.
पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
आर्या
genderस्त्रीfem.
अथ सेना तु पृतना वाहिनी वाहना चमूः ।वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥
अनुष्टुप्
genderस्त्रीfem.
क्लीबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् ।वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥
अनुष्टुप्
genderस्त्रीfem.
शष्कुली च चमूर्दद्रूः कर्णान्दूरक्तुरित्यपि ।कच्छूस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वजिनी वाहिनी सेनानीकिनी च पताकिनी ।वरूथिनी च पृतना चमु-चम्वौ स्त्रियौ बलम् ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
सेनामुखं गुल्म-गणौ वाहिनी पृतना चमुः ।अनीकिनी दशानीकिन्यक्षौहिण्युच्यते बुधैः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां सयोनिदेहिनां विना विशेषमाह्वयश्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥
पञ्चचामरम्
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
सैन्यं चक्रं बलं सेना पृतना ध्वजिनी चमूः ।अनीकिनीपताकिन्यौ वाहिनी च वरूथिनी ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
अक्षौहिणी बलानीकं वाहिनी साधनं चमूः ।ध्वजिनी पृतना सेना सैन्यं दण्डो वरूथिनी ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी ।अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥
अनुष्टुप्
genderस्त्रीfem.
रथपूगे तु रालः स्यात्पत्तिसङ्घे तु कूटकः ।चतुरङ्गबलौघे तु ध्वजिनी वाहिनी चमूः ॥ ३४४ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिसहस्रं षट्शतकं चत्वारिंशच्च पञ्च च ।पदातीनां चमूर्ज्ञेया सैन्यसंख्या विचक्षणैः ॥ ३५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
genderस्त्रीfem.
चमूरनीकिनी सेना पृतना वाहिनी बलम् ॥ २१८ ॥
genderस्त्रीfem.
परिपन्थी प्रत्यनीको दस्युदुर्हृदरातयः ।अनीकं कटकं सैन्यं चक्रं दण्डो बलं चमूः ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
वरूथिनी चमूश्चक्रं पृतना च पताकिनी ।शिबिरो ध्वजिनी दण्डः स्कन्धावारश्च वाहिनी ॥ १२१७ ॥
अनुष्टुप्
genderस्त्रीfem.
सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ।अनीकिनी च पत्तेः स्याद् कराद्यैस्त्रिगुणैः क्रमात् ॥ १२२१ ॥
अनुष्टुप्
genderस्त्रीfem.
रणे साधुः सांयुगीनः काण्डष्पृष्टादयस्त्रिषु ।पृतनानीकिनी सेनाध्वजिनी वाहिनी चमूः ॥
अनुष्टुप्
genderस्त्रीfem.
तिसृभिः पृतनाभिस्तु चमूस्तस्या गुणत्रये ।अनीकिनी तद्दशभिर्गुणैरक्षौहिनी भवेत् ॥
अनुष्टुप्
genderस्त्रीfem.
श्रेणिः श्रोणिश्च धमनिवर्त्तनिस्तरणिस्तरौ ।तनूर्जम्बूश्चमूरत्तर्दूः कर्कन्धूर्वाधिता द्वयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूश्चमुः ।सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् ॥ २५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
genderस्त्रीfem.
चमूः स्त्री चर्म सुत्यार्थं कुम्बा सुगहना वृतिः ।पशुबन्धास्तु पशवः स्थण्डिलं चत्वरं समे ॥ ११९० ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्ध्वाधोलम्बिनौ स्यातामुच्चचूडावचूडकौ ।ध्वजिनी पृतना सेनानीकिनी वाहिनी चमूः ॥ १३५५ ॥
अनुष्टुप्
genderस्त्रीfem.
चमूः स्त्री चर्म सुत्यार्थं ग्रावणस्त्वभ्रयोऽश्मसु ।विघनो घनो मुद्गरे नरःस्फ्योद्धननन्दनाः ॥ १०२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सैन्यं चक्रं बलं सेना चमूर्वाहिन्यनीकिनी ।पताकिनी च पृतना ध्वजिनी च वरूथिनी ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनीत्यनीकिन्यः पुनरक्षौहिणी दश ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
चमू as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप बलबलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूप्वथ । बलभद्रे यावकाख्ययवभेदे च नाथ तम् ॥ ८३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.833
- नानार्थार्णवसंक्षेप सेनास्यूतौ तु सेवो ना न क्ली भजने त्रि तु सेनवाक् । इनेन सहिते स्त्री तु सेना चम्वामथास्त्रियाम् ॥ १५५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1556
- शब्दरत्नाकर अनीकअण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे । अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥ Śabdaratnākara 4.1.2042
- वैजयन्ती बलअर्केऽग्नौ क्ली तु वेदेऽन्नं स्वाध्यात्मात्मतपःसु च । बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च ॥ ५४ ॥ Vaijayantī 6.5.54
- वैजयन्ती अनीकअलसौ पादरुङ्मन्दावण्डीरौ शक्तपूरुषौ । विद्युत्पव्योरक्ल्यशनिरनीकोऽस्त्री चमूयुधोः ॥ १५ ॥ Vaijayantī 7.5.15
- वैजयन्ती प्रतिसरप्रतिष्कशः पुमान् द्यूते त्रिष्वग्रगसहाययोः । अस्त्री प्रतिसरो हस्तसूत्रे ना तु चमूकटौ ॥ १४ ॥ Vaijayantī 8.5.14