कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तनू

tanūस्त्री · fem.

In 13 kośas: 15 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.122
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.510 · p. 58
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderस्त्रीfem.
तनुस्तनूश्च देहे स्यात् सान्तया तनुषा सह ।घुटिर्घुटी च घुटिका घुटोऽपि स्यात् कटिः कटी ॥ १७७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.129 · p. 34
व्याधिपर्यायस्थानार्थं स्त्रियां मूर्तिस्तनुस्तनूः ।पुरी पूरस्त्रियां पुंसि पञ्जरो घन इत्यपि ॥ १२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.45 · p. 466
शष्कुली च चमूर्दद्रूः कर्णान्दूरक्तुरित्यपि ।कच्छूस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.46 · p. 213
मूर्तिस्तनूस्तनुश्च स्त्री कुडिः सान्तं तनुर्न ना ।शरीर-देहे अस्त्रीके तत्तु शस्तं वपुष्टमम् ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
एते पुंसि भवन्ति । अयं कल्कः पापं दम्भश्च । कृमिः कीटः । मुनिस्तपस्वी । अङ्गारः काष्ठस्य । वप्रः प्राकारः । ग्रह उपरागः । होमो मन्त्राहुतिः । ऋषिस्तापसः ।यक्ष्मा रोगः । रेफो वर्णविशेषः अधमश्च । मण्डोऽन्नविकारः । करण्डः कुशभाण्डः । वरण्डः काष्ठविशेषः । शपथः प्रत्ययकरणम् । अम्बरीषो भ्राष्ट्रः ।मथुरा तनुस्तनूर्वर्त्तिनी सूची[चि] यवागू-र्वर्णिनिकाशाशर्कराः स्त्रियां पुंसि तर्कश्च ॥ ८२ ॥
metre not recognised
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.19 · p. 21
शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः ।अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.901 · p. 136
अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् ।वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.265 · p. 100
क्षेत्रं तलुः कुलं पिण्डं कन्धं स्कन्धं कलेवरम् ।द्वेऽस्त्रियौ कायदेहौ च तनूर्मूर्तिस्तनुः स्त्रियः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.26 · p. 309
श्रेणिः श्रोणिश्च धमनिवर्त्तनिस्तरणिस्तरौ ।तनूर्जम्बूश्चमूरत्तर्दूः कर्कन्धूर्वाधिता द्वयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.41 · p. 311
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.153 · p. 201
तनूः स्यात्तनु-तनुषी घनस्तद्वच्च भूघनः ।गात्रं गान्त्रं मूर्तिमच्च मूर्तिः स्यात्, कुणपे शवः ॥ १५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1060 · p. 132
देहोऽस्त्री विग्रहः कायः पिण्डो मूर्तिस्तनुस्तनूः ।वपुः संहननं वर्ष्म गात्रं क्षेत्रं कलेवरम् ॥ १०६० ॥
अनुष्टुप्
genderस्त्रीfem.

तनू as a meaning in nānārtha verses