तापी
tāpīस्त्री · fem.In 13 kośas: 11 synonym verses, 3 as a nānārtha head word.
गोदा गोदावरी तापी तपनी तपनात्मजा ।
अनुष्टुप्
genderस्त्रीfem.
यमुनायम्यर्कसुता कालिन्दी च यमस्वसा ।एवं तापी तु तपनी शनिपर्यायतोऽनुजा ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्य (wrong syllable)
genderस्त्रीfem.
गोदा गोदावरी गोला गौतमी चाभिधीयते ।तपना तपती तापी सैत्या(षा?) स्यात्तपनात्मजा ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
रेवा गोदावरी गोदा तापी स्यात्तपनात्मजा ।गौमती चापि वाशिष्ठी विशिष्यैवं निरीक्ष्यताम् ॥ ३६३ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
धर्मद्रवी त्रिपथगा सितसिन्धुर्भवायना ।कालिन्दी यमुना श्यामा तापी च शमनस्वसा ॥
अनुष्टुप्
genderस्त्रीfem.
गोदावरी, सुर्यात्मजा तापिस्तापी शतद्रुयुक् ।शुतुद्रिः शुतुद्रुरपि शितद्रुः सरयूयुता ॥ १०२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र्या (wrong syllable); pāda 3, syllable 4 शु (wrong syllable)
genderस्त्रीfem.
ऋषिकुल्या शुक्तिमती सिन्धुश्चर्मण्वती शिप्रा ।देवस्मृतिर्वितस्ता तमसा तपती दृषद्वती तापी ॥ ३५१ ॥
उद्गीतिः
genderस्त्रीfem.
तापी तु तपती सैत्या चन्द्रभागा तु चन्द्रका ।चान्द्रभागा शारदा तु कश्मीरेषु सरस्वती ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
धर्मद्रवी सिद्धसिन्धुस्तापी तु यमुना यमी ।रेवा तु पूर्वगंगा स्यान्मुरला तु मुरन्दला ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
तापी तु तपिनी शैब्या चन्द्रभासा तु चन्द्रिका ।शतद्रूस्तु शुतुद्री स्याद्विपाशा तु विपाट् स्त्रियाम् ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
तापौ हृत्तापसंतापौ तापी नद्यन्तरे स्मृता ।पुष्पं स्त्रीरजसि ज्ञेयं प्रसूनप्रविकाशयोः ॥
अनुष्टुप्
meaningsनदी
विस्तारे तानशब्दोऽथ गीतिधर्मे नपुंसकम् ।तापस्तप्तौ पुमान् स्त्री तु तापी स्यान्निम्नगान्तरे ॥ ५२९ ॥
अनुष्टुप्
meaningsनिम्नगान्तर
तापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् ।त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु ।दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥
अनुष्टुप्
meaningsनदी