कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

पान्ताः · पार्धश्लोकः

॥ पार्धश्लोकः ॥

कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने ।कूपो नौगुणवृक्षे स्याद्गर्तोदपानयोरपि ॥
20.2.1 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
तल्पोऽपि शयनीये स्यात्तल्पमट्टकलत्रयोः ।सूपो व्यञ्जनभेदः स्यात्सूपोऽपि सूपकारकः ॥
20.2.2 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
लेपः प्रलेपने जग्धौ सुधा लेपः प्रकीर्तितः ।स्वापः स्पर्शाज्ञता निद्रा स्वापश्चाज्ञानमात्रकम् ॥
20.2.3 · p. 132
अनुष्टुप्
तापौ हृत्तापसंतापौ तापी नद्यन्तरे स्मृता ।पुष्पं स्त्रीरजसि ज्ञेयं प्रसूनप्रविकाशयोः ॥
20.2.4 · p. 132
अनुष्टुप्
शष्पं बालतृणं प्रोक्तं शष्पं स्यात्प्रतिभाक्षयः ।कलापः संहतौ बर्हे काञ्चितूणीरयोरपि ॥
20.2.5 · p. 133
अनुष्टुप्
आवापो भाण्डवपने परिक्षेपालवालयोः ।विटपः पल्लवे स्तम्बे शाखायां विटपो मतः ॥
20.2.6 · p. 133
अनुष्टुप्
आक्षेपः स्यादुपक्षेपे काव्यालंकारनिन्दयोः ।परीवापः परिक्षेपे पर्याप्तौ सलिलस्थितौ ॥
20.2.7 · p. 133
अनुष्टुप्
अवलेपः स्मृतो गर्वे दूषणे लेपनेऽपि च ।उपतापो गदे तापे त्वरायामपि दृश्यते ॥
20.2.8 · p. 133
अनुष्टुप्
…स्याद्रा[65]क्षसे च प्रयुज्यते ।हेमपुष्पश्च च कविभिश्चम्पकाशोकयोरपि ।बहुरूपौ विष्णुरुद्रौ स्मृतौ सरटधूनकौ ॥
20.2.9 · p. 133
metre not recognisednearly अनुष्टुप्