कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

द्वितीयः परिच्छेदः (4/4)

सिद्धापगा खापगा च ऋषिकुल्या सरिद्वरा ।स्वर्णदीहैमवत्यौ च स्वर्वापी स्वर्गता नदी ॥ ३६१ ॥
2.361 · p. 49
अनुष्टुप्
कालिन्दी यमुना सूर्यजा यमी च यमस्वसा ।नर्मदा स्यात्पूर्वगङ्गा इन्दुजा मेकलाद्रिजा ॥ ३६२ ॥
2.362 · p. 49
अनुष्टुप्
रेवा गोदावरी गोदा तापी स्यात्तपनात्मजा ।गौमती चापि वाशिष्ठी विशिष्यैवं निरीक्ष्यताम् ॥ ३६३ ॥
2.363 · p. 49
अनुष्टुप्
शतद्रुः स्याच्छुतुद्रुस्तु चन्द्रभागा तु चन्द्रिका ।सरस्वती ब्रह्मपुत्री विपाशा च विपाट् स्त्रियाम् ॥ ३६४ ॥
2.364 · p. 49
अनुष्टुप्
अर्जुनी बाहुदा सैतवाहिनी चापि कथ्यते ।वैतरणी नरकस्था कावेरी त्वर्धजाह्नवी ॥ ३६५ ॥
2.365 · p. 49
अनुष्टुप्metre not read in every line
स्वतोऽम्भःसरणं स्रोतः प्र[28]वाहौ तावुभौ समौ ।वेणी धारा रयोऽथ स्यादुत्ताराख्या विशेषतः ॥ ३६६ ॥
2.366 · p. 49
अनुष्टुप्
घट्टस्तीर्थोऽवतारोऽम्बुवृद्धौ पूरः प्लवोऽपि च ।वक्राणि पुटभेदाः स्युर्भ्रमास्तु जलनिर्गमाः ॥ ३६७ ॥
2.367 · p. 50
अनुष्टुप्
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।प्रणाली जलमार्गश्च पानं कुल्या च सारणिः ॥ ३६८ ॥
2.368 · p. 50
अनुष्टुप्
[सिकता?] वालुकाः प्रोक्ता बिन्दवः पृषतः प्रषत् ।विप्रुषोऽप्यथ जम्बालचिकिलौ कर्दमः पुमान् ॥ ३६९ ॥
2.369 · p. 50
अनुष्टुप्
पङ्को निषद्वरः शादो मृच्चते स्वल्पवारितः ।हिरण्यबाहुरुक्तास्तु शोणे नदे वहोऽपीरितः ॥ ३७० ॥
2.370 · p. 50
अनुष्टुप्metre not read in every line
सरस्वांश्चोध्यभिद्यौ च ह्रदोऽगाधजलो द्रहः ।कूपोऽन्धुरुदपानोऽथ नेमी स्यात्तन्त्रिका स्त्रियाम् ॥ ३७१ ॥
2.371 · p. 50
अनुष्टुप्
नान्दीपुटो नान्दीमुखो वीनाहो मुखबन्धनम् ।निपानं त्वाहवः पुंस्युपकूपोऽपि च दृश्यते ॥ ३७२ ॥
2.372 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्दी (wrong syllable)
वापी स्याद्दीर्घिका क्षुद्रकूपे चूरी च चूतकः ।अरघट्टो घटीयन्त्रे पादावर्तोऽपि कथ्यते ॥ ३७३ ॥
2.373 · p. 50
अनुष्टुप्
देवखाते त्वखातं स्यात्खातकं पुष्करिण्यपि ।तडागः सरसी पद्माकरः कासार एव च ॥ ३७४ ॥
2.374 · p. 50
अनुष्टुप्
वेशन्तश्च सरः स्तोकं पल्वलः परिकीर्तितः ।खातिका परिखा खेयाथावालः स्थानकं पुनः ॥ ३७५ ॥
2.375 · p. 51
अनुष्टुप्
आवापश्चालवालोऽपि वृक्षस्थानकमुच्यते ।निर्झरस्तु झरश्चोत्सः स्रवः प्रस्रवणं सरिः ।जलाशया जलाधारा वारिवर्गो विवेचितः ॥ ३७६ ॥
2.376 · p. 51
अनुष्टुप्