कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दुर्बल

durbalaवि · adj.

In 10 kośas: 8 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.449 · p. 21
चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ ४४८ ॥निर्दिग्धो मांसलश्चोपचितोऽथ दुर्बलः कृशः ।क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.71
अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.107 · p. 32
अमांसो दुर्बलः शातश्छातः क्षामः शितः कृशः ।क्षीणस्तनुश्च तलिनस्तुन्दी तुन्दोऽपि चण्डिलः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 213
असौ पितृसधर्मापि स्यादथास्मै हितो हि यः ।स स्यादाचार्यभोगीनो दुर्बलस्तु कृशस्तनुः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.111 · p. 115
चक्षुष्योऽक्षिगतो ---------- सुभगो बलिमांसलौ ।निर्दिग्धोपचितावंसलः क्षामः कृशदुर्बलौ ॥ १११ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.683 · p. 92
अमांसो दुर्बलः क्षामः कृशः क्षोणस्तनुस्तथा ॥ ६८३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.205 · p. 97
छातः शातः शितोऽमांसो दुर्बलोऽबलोऽपि च ॥
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.5 · p. 201
पितुर्विभक्तः संसृष्टी भ्रात्रार्थेनैकतां गतः ।पृश्निः किरातोऽल्पतनुर्दुर्बलस्तु कृशस्तनुः ॥ ५ ॥
अनुष्टुप्
genderविadj.

दुर्बल as a meaning in nānārtha verses