क्षीण
kṣīṇaवि · adj.In 12 kośas: 9 synonym verses, 7 as a meaning of another word.
चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ ४४८ ॥निर्दिग्धो मांसलश्चोपचितोऽथ दुर्बलः कृशः ।क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderविadj.
क्षामं शातं कृशं क्षीणं पेलवं तलिनं तनु ।निरन्तरं घनं सान्द्रं बहुलं विरलेतरम् ॥ ७१७ ॥
अनुष्टुप्
genderविadj.
अमांसो दुर्बलः शातश्छातः क्षामः शितः कृशः ।क्षीणस्तनुश्च तलिनस्तुन्दी तुन्दोऽपि चण्डिलः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
क्षामः क्षीणोऽमांसलश्च तलिनच्छात-पेलवाः ।निर्दिग्धः[82b] स्यादुपचितो बलवान्मांसलोंऽसलः ॥ ३३ ॥
metre not recognised
genderपुंmasc.
क्षामं शान्तं कृशं क्षीणं हीनं जीर्णं च वैरिणाम् ।शीर्णावसानं दूनं च धैर्यं शौर्यं च पौरुषे ॥ १७१ ॥
अनुष्टुप्
genderविadj.
तनुश्छातस्तथा क्षीणस्तुन्दिको वृद्धकुक्षिकः ।पिचिण्डिलस्तुन्दिलोऽपि उदर्युदरिलौ समौ ॥ ११२ ॥
अनुष्टुप्
genderविadj.
अणु सूक्ष्मं लघु श्लक्ष्णं क्षामः क्षीणः कृशस्तनु ।बंहिष्ठं प्रचुरं प्राज्यं पुष्कलं बहुलं बहु ॥ ९० ॥
अनुष्टुप्
genderविadj.
उच्छृङ्खलं स्यादुद्दामं निरङ्कुशमनर्गलम् ।संबाधः संकटो रीणः क्षीणो मूर्तस्तु मूर्तिमान् ॥ १६५७ ॥
अनुष्टुप्
genderविadj.
क्षीणं क्षामं विलिष्टं स्यात् स्थूलं तु बहलं दृढम् ।प्रभूतं प्रचुरं प्राज्यं बहलं बहुलं बहु ॥ ८४ ॥
अनुष्टुप्
genderविadj.
क्षीण as a meaning in nānārtha verses
- धरणिकोश प्रवणप्रवणः क्रमनिम्नोर्व्यां प्रह्वे च स्याच्चतुष्पथे । आयत्ते च तथा क्षीणे प्रवणः समुदाहृतः ॥ Dharaṇikośa 14.3.18
- धरणिकोश प्रहतप्रहतौ क्षीणव्यासन्नौ विगतौ वीतनिष्प्रभौ । द्विजाती विप्रशकुनौ जीवातुर्जायुजीवयोः ॥ Dharaṇikośa 15.1.16
- कोषकल्पतरु प्रवणआवर्ते प्रणते च दातरि वहौ क्षीणे क्रमान्निम्नक- क्ष्याभागे प्रवणोऽन्यवत्क्षणगतोऽप्यस्त्री तु शृङ्गाटके । बन्द्यां स्वीकरणे करेऽधिगमने राहूपरागे तथा- दृत्यां च ग्रहणं दृशीक्षणमपि ज्ञाने तथा दर्शने ॥ २३ ॥ Koṣakalpataru 6.15.23
- नानार्थार्णवसंक्षेप क्षामक्षामस्तृणाग्नौ ना क्षीणे त्रिषु क्षामा स्त्रियां भुवि । क्ली त्विध्मप्रोक्षणे कार्ष्णं कृष्णसम्बन्धिनि त्रिषु ॥ १९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.198
- नानार्थार्णवसंक्षेप दीनदीनस्तु पुंसि पुन्नागे केतक्यां च त्रिषु त्वयम् । दरिद्रे कृपणे क्षीणे दीर्णी तु ककुभि स्त्रियाम् ॥ ६०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.601
- नानार्थार्णवसंक्षेप सातसातं तु क्ली सुखे त्रिस्तु क्षीणेऽपि सतयोगिनि । एतयोरर्थयोः पूर्वे स्त्र्यर्थे साता परत्र तु ॥ १४९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1497
- शब्दरत्नावली क्षमक्रमोऽनुक्रमशक्त्योर्ना कल्पाक्रमणयोरपि । क्षमा क्षान्तौ क्षितौ स्त्री तु क्षमं युक्ते नपुंसकम् ॥ वाच्यलिङ्गं हिते शक्ते क्षये क्षीणेऽबले त्रिषु । कामः स्मरेच्छयोः कामं काम्ये वीर्यनिकामयोः ॥ Śabdaratnāvalī 7.25.4