कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पट्टन

paṭṭanaक्ली · neut.

In 8 kośas: 8 synonym verses, 2 as a nānārtha head word.

नगरी नगरं च स्यात् पूः पुरी च पुरिः पुरम् ।पत्तनं पट्टनं च स्यात् पट्टनी च समं त्रयम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.4 · p. 9
वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् ।स्यादभिष्यन्दिवमनमुपपर्यायतः पुरम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.1 · p. 119
पुरं त्रिलिङ्ग्यां नगरी न पुंसिद्रङ्गो नृलिङ्गो निगमः स्त्रियां पूः ।निवेशनं पत्तन-पट्टने चस्थानीयमुक्तं पुटभेदनं च ॥ १ ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.3 · p. 119
भवेदुपपुरं गृह्या नौभिर्गम्यं च पत्तनम् ।नौभिर्गम्यं पट्टनं स्यात्खेटोऽर्धपुरमस्त्रियाम् ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 97 · p. 48
राष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः ।पूः पुरी नगरं चैव पट्टनं पुटभेदनम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1660 · p. 266
पुरी पुरिश्च पूश्चैवं पट्टनं पुटभेदनम् ।अधिष्ठानं पत्तनञ्च निवेशश्च निवेशनम् ॥ १६६० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.24 · p. 220
नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने ।पुरस्त्रिषु पूः पुरिश्च, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.3 · p. 159
स्युः कर्वेटं कार्वटिकं कार्वटं नृंगपट्टने ।कर्वटोऽस्त्री द्रोणमुखं पट्टनं पुटभेदनम् ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.53 · p. 37
पट्टनं तु पुरेऽन्ये तु पुटभेदनसंज्ञके ।क्षुद्रग्रामे परे त्वाहुः सर्वशब्दार्थकोविदाः ॥ ५३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.54 · p. 37
पट्टनं शकटैर्गम्यं घोटकैर्नौभिरेव च ।पद्मकं पद्मकाष्ठे स्याद्धस्तिनां बिन्दुजालके ॥ ५४ ॥
अनुष्टुप्