राष्ट्र
rāṣṭraक्ली · neut.In 16 kośas: 28 synonym verses, 5 as a nānārtha head word, 16 as a meaning of another word.
स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च ।राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ७१४ ॥
अनुष्टुप्
genderक्लीneut.
वर्षं वर्षधराद्र्यङ्कं विषयस्तूपवर्तनम् ।देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् ॥ ९४७ ॥
अनुष्टुप्
genderक्लीneut.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।
अनुष्टुप्
genderक्लीneut.
नीवृज्जनपदो जानपदश्च विषयः पुमान् ।देशः प्रदेशोस्त्री राष्ट्रं स्थितिश्चावकाशकः ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दे (syllables merged)
genderक्लीneut.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।सप्तैवाङ्गान्यमूनि स्युरथ पौरास्तु पुंस्यमी ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
… गह्वराणां तिमिरभ्राष्ट्रयोस्तथा ।राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥ १७९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
पुंसि स्याद्विषयो देशो निर्गश्चक्रं च मण्डलम् ।उपवर्तनमन्त्येऽथ नीवृत्स्त्री राष्ट्रमस्त्रियाम् ॥ १३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
यथार्हवर्णो विश्वस्तस्त्वाप्तः प्रत्ययितस्त्रिषु ।स्वाम्यमात्य-सुहृत्कोश-राष्ट्र-दु*[र्ग]बलानि च ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
मालिनी
genderपुंक्लीm. n.
त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः ।विंशतिरानवतेः स्त्री नपुंसके तालुहृदयकुड्यानि ।पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥
metre not recognised
genderक्लीneut.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
विंशतिस्त्रीत्रिंशत्स्त्रीचत्वारिंशत्स्त्रीपञ्चाशत्स्त्रीषष्टिस्त्रीसप्ततिस्त्रीअशीतिस्त्रीनवतिस्त्रीतालुक्लीहृदयक्लीकुड्यक्लीपार्श्वक्लीकुकुन्दरक्लीविण्यक्लीतलक्लीधनक्लीलवणक्लीराष्ट्रक्लीक्रोडास्त्रीघाटास्त्रीजिह्वास्त्रीशिरोधरास्त्रीशष्कुलीस्त्रीस्पृहास्त्रीमायास्त्रीशाखास्त्रीशिखास्त्रीकलास्त्रीमेखलास्त्रीरेखास्त्रीराजिस्त्रीपङ्क्तिस्त्री
genderक्लीneut.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ १५५ ॥
अनुष्टुप्
genderक्लीneut.
राष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः ।पूः पुरी नगरं चैव पट्टनं पुटभेदनम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
क्षेत्रं वर्षधराद्यङ्कं वर्षं देशोऽथ मण्डलम् ।राष्ट्रं जनपदो निर्गो विषयो नीवृदीरितः ॥ २३६ ॥
अनुष्टुप्
genderक्लीneut.
तिमिराङ्गारराष्ट्राणि जीरमञ्जीरवासराः ।विहारवारकान्तारकासाराणि च नूपुरम् ॥ १५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैतालिका बोधकरा बन्दिनः स्तुतिपाठकाः ।देशो जनपदो राष्ट्रं नीवृद्विषयमण्डले ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
स्वाम्यऽमात्यस्तथा सुहृत् कोशो राष्ट्रं दुर्गो बलम् ॥ ११६२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वर्षं वर्षधराद्यङ्कं क्षेत्रसंज्ञा निगद्यते ।देशो जनपदो राष्ट्रं नीवृत् निर्गश्च मण्डलम् ॥ १६०९ ॥
अनुष्टुप्
genderक्लीneut.
देशप्रदेशविषयास्तथा राष्ट्रोपवर्तनम् ।आगोष्ठात् त्रिषु नड्वांस्तु नड्वलो नडसंयुते ॥
अनुष्टुप्
genderक्लीneut.
स्वामात्यश्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ॥
genderक्लीneut.
परस्परोपकारीदं सप्ताङ्ग राज्यमुच्यते ।अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
genderक्लीneut.
पौरश्रणी तदङ्गञ्च व्रूवते शब्दवेदिनः ।स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा ॥
अनुष्टुप्
genderक्लीneut.
शैतशिवं शीतशिवं लवणे सिन्धुसम्भवे ।रौमकं वसुकं राष्ट्रं साम्भरीलवणे त्रयम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
genderक्लीneut.
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
अनुष्टुप्
genderक्लीneut.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।षाड्गुण्यं षड्गुणाः संधिविग्रहो यानमासनम् ॥ १२७२ ॥
अनुष्टुप्
genderक्लीneut.
आकाशकुञ्जकुतपौदनवारवाणप्रस्थावतंसनखमण्डपकच्छपुच्छाः ।कान्तारकङ्कणतडागकिरीटराष्ट्रतीर्थव्रणस्तबकसङ्क्रमपीठकानि ॥ १२ ॥
वसन्ततिलका
genderपुंक्लीm. n.
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
शिष्टराज्ञाप्यथ न्यायो देशरूपं समंजसम् ।राष्ट्रं तु विषयः सोऽपि युक्तो ग्रामैः शताधिकैः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
नृशण्डयोरजन्ये च विषयेऽप्यथ राम्भवाक् ।ना दण्डे वैणवे रम्भासम्बन्धिनि तु स त्रिषु ॥ ११०४ ॥
अनुष्टुप्
doubtful
राष्ट्र as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् चक्रचक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८२ ॥ Amarakośa 3.3.182
- धरणिकोश चक्रचक्रस्तु चक्रवाके स्याच्चक्रं सैन्यरथाङ्गयोः । राष्ट्रे दम्भप्रभेदे च चक्रं प्रहरणान्तरम् ॥ Dharaṇikośa 26.3.8
- नानार्थार्णवसंक्षेप चक्रहिमोत्सर्गाय कथितास्तेषु चक्रं तु नप्यदः । पुंस्यप्येके रथाङ्गे च संसारे सैन्यराष्ट्रयोः ॥ ३९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.397
- नानार्थार्णवसंक्षेप दुर्गराष्ट्रे तु ना परे त्वाहुर्दुष्प्रापनगरे नरम् । अन्ये क्ली दुर्गमे तु त्रिः कात्यायन्यां तु सा स्त्रियाम् ॥ ६०७ ॥ Nānārthārṇavasaṃkṣepa 2.5.607
- नानार्थार्णवसंक्षेप सैन्धवद्वे त्वश्वेऽश्वप्रभेदे च सिन्धुदेशजमानुषे । क्ली तु वस्त्रे च जाले च राष्ट्रे चाह त्रिषु त्वयम् ॥ २००५ ॥ Nānārthārṇavasaṃkṣepa 4.2005
- नानार्थार्णवसंक्षेप राजसभा(शासे ?)केसरमालाख्ये स्यात् तु राजसभाध्वनिः । राष्ट्रेऽपि राज्ञ आस्थाने व्याख्याकारेण केनचित् ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 6.46
- नानार्थार्णवसंक्षेप उपवर्तनराष्ट्रेऽप्यथोपयमनं विवाहे स्वीकृतावपि । कालानुसार्यं शैलेये जावकाख्ये विलेपने ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 7.7
- परमानन्दीयनाममाला चक्रचण्डी शिवस्त्रियां चण्डा शङ्खपुष्पा निगद्यते । चक्रं राष्ट्रे बले वृन्दे जलावर्तरथाङ्गयोः ॥ १७६ ॥ Paramānandīyanāmamālā 5.11.176
- शब्दरत्नावली चक्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
- शब्दरत्नाकर चक्रचक्रं राष्ट्रजलावर्तसैन्यच्छद्मसु संहतौ । रथाङ्गे मण्डले वृत्ते संसारायुधभेदयोः ॥ १९२० ॥ Śabdaratnākara 4.1.1920
- शब्दरत्नाकर तन्त्रदृङ्मध्यरज्जुसुग्रीवजायासु स्त्री त्रिषूज्ज्वले । तन्त्रं स्यादौषधे शास्त्रराष्ट्रचिन्तानवाम्बरे ॥ १९३० ॥ Śabdaratnākara 4.1.1930
- शब्दरत्नाकर दुर्गअव्यये दरमल्पार्थे दरः शङ्खे भये बिले । दुर्गा तु पार्वती दुर्गो राष्ट्रे दुर्गं वने पुरे ॥ १९३९ ॥ Śabdaratnākara 4.1.1939
- शब्दरत्नाकर विषयवाच्यवद्विषयोपेते विषयः स्त्र्यादिराष्ट्रयोः । आस्पदे गोचरे दीपभाजने चावलम्बने ॥ २१६९ ॥ Śabdaratnākara 4.1.2169
- त्रिकाण्डशेष चक्रचक्रः कोके व्रजे पुंसि क्लीबे सैन्यरथाङ्गयोः । ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥ ३५१ ॥ Trikāṇḍaśeṣa 3.3.351
- वैजयन्ती चक्रचक्रं सैन्ये जलावर्ते रथांगे चयराष्ट्रयोः । संसारे मण्डले वृत्ते छद्मभेदास्त्रभेदयोः ॥ ७ ॥ Vaijayantī 6.3.7
- वैजयन्ती दुर्गदिग्धो विषप्रलिप्तेषौ लिप्ते स्नेहप्रवृद्धयोः । दुर्गे राष्ट्रे वने दुर्गं दुर्गमे नरके पुरे ॥ ४१ ॥ Vaijayantī 6.5.41