कटक
kaṭakaपुं · masc.In 16 kośas: 44 synonym verses, 11 as a nānārtha head word, 7 as a meaning of another word.
केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ ॥कटको वलयं पारिहार्यावापौ तु कङ्कणम् ।हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ ॥
अनुष्टुप्
genderपुंmasc.
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ ॥मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् ।सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ ॥पटः प्रौतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः ।
अनुष्टुप्
genderपुंmasc.
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ ॥कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।वरूथिना चमूश्चक्रं स्कन्धवारोऽस्य तु स्थितिः ॥ ७४६ ॥शिबिरं रचना तु स्याद्व्यूहो दण्डादिको युधि ।
अनुष्टुप्
genderक्लीneut.
मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderपुंmasc.
कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ।
अनुष्टुप्
genderपुंक्लीm. n.
genderपुंmasc.
नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः ।शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम् ।आवापः परिहार्यः स्यात्कटको वलयं तथा ॥ ५५७ ॥
अनुष्टुप्
genderपुंmasc.
दरी गुहा नितम्बश्च कन्दरः कटकोऽपि च ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला मणिः ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् ।स्यादभिष्यन्दिवमनमुपपर्यायतः पुरम् ॥ ४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्लीबेऽङ्गदं तु केयूरं बाहुपर्यायभूषणम् ।आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रोदयश्च कटको वितानं पुंनपुंसकम् ।क्लीबे स्थुलं पट्टमयं दूष्यं यद्वस्त्रवेश्म च ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
कटकोप्यथ कुम्भ्यक्षिकूटे स्यादिषीकेषिका ।अवग्रहो ललाट स्याद्विदुः पुंस्युभयान्तरम् ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 षी (wrong syllable)
genderपुंmasc.
अस्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् ।गलोर्गलः कुटः कोटः कोटो दुर्गश्च पुंस्यमी ॥ २४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मेखला मध्यभागोऽद्रेर्नितम्बः कटकोऽस्त्रियाम् ।द्रोणी तु शैलयोः सन्धिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शैलाग्रं शृङ्ग-शिखर-कूटानि त्री[13b]णि न स्त्रियाम् ।कूटनिः(?) स्त्री नितम्बोऽद्रेर्मेखला कटकोऽस्त्रियाम् ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
तद्दुर्गन्धं शूलहृत्स्यान्नीलकं यदि मेचकम् ।तीक्ष्णं सामुद्रमक्षीबं वशिरः कटकोऽस्त्रियाम् ॥ २३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बाहुभूषा खटूः केयूराङ्गदे चाथ न स्त्रियाम् ।षडमी स्युः पारिहार्यः कटको वलयोऽपि च ॥ ७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वृतिः सुगहना कुम्बो स्यात्स्तम्भे युग-यूपकौ ।चषालोऽस्त्री तत्कटको यूपाग्रं नर्म न स्त्रियाम् ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्रं सैन्यं च कटकं चक्रं चाविकमस्त्रियाम् ।स्कन्धावारोऽपि दण्डोऽथ व्यूहो विन्यसनं पृतः ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
तटे भृगुः प्रपातोऽथ शिखरे शृङ्गकुटके ।नितम्बमेखले भूध्रमध्ये च कटकस्तथा ॥ ३१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
genderपुंmasc.
कङ्कणं कटकः पारिहार्यो वलयमेव च ।अवापो हस्तसूत्रं चोर्मिका स्यादङ्गुलीयकम् ॥ ३१० ॥
अनुष्टुप्
genderपुंmasc.
ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी ।अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥
अनुष्टुप्
genderक्लीneut.
चषकफलककल्का मूलको मञ्चकोऽपिमरकमणिकटङ्का शाटकः पुस्तकश्च ।चरकसरकशूकानीकशुल्काश्च मुष्कःकटकफरकनाका मस्तको मुस्तकश्च ॥ १३० ॥
मालिनी
genderपुंक्लीm. n.
कङ्कणं वलयं चूली चूलिका वलयोर्मिका ।बाह्वटं बाहुवलयं केयूरं कटकाङ्गदे ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
शैलाग्रं शिखरं प्रस्थः स्रुः शिलोच्चयमस्तकम् ।क्ष्माभृन्नितम्बः कटको गण्डशैलाः च्युतोपलाः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
मुद्रिका ऊर्मिका मुद्राभिज्ञानं चाङ्गुलीयकम् ।कटको वलयावापौ कङ्कणं करभूषणम् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
परिपन्थी प्रत्यनीको दस्युदुर्हृदरातयः ।अनीकं कटकं सैन्यं चक्रं दण्डो बलं चमूः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
कङ्कणं हस्तसूत्रं च कटकः करभूषणम् ।वलयं चेति नामानि वदन्ति विबुधाः सदा ॥ १०७५ ॥
अनुष्टुप्
genderपुंmasc.
अनीकं कटकं तन्त्रं सेना सैन्यमनीकिनी ॥ १२१६ ॥
अनुष्टुप्
genderक्लीneut.
नितम्बो मेखला नाम कटको गिरिमध्यभाक् ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
पूः स्त्री पुरी च नगरी पुरं नगरपत्तनम् ।स्थानीयं कटकं पट्यं निगमः पुटभेदनम् ॥
अनुष्टुप्
genderक्लीneut.
कटकोऽस्त्री शैलमध्यो नितम्बोऽपि कुत्रचित् ।पर्वते समभूभागे स्नुः प्रस्थः सानुरस्त्रियौ ।यत्र विश्राम्यति स्रूत्वा स्रूत्वा पुनः पुनः ।उत्सः प्रसवणञ्चापि द्वयं तत्राभिधीयते ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कटकञ्च कङ्कणोऽस्त्री कौतुकं करभूषणम् ।करसूत्रं प्रतिसरं चूडा या वाभटीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्च (wrong syllable)
genderक्लीneut.
गण्डः कटश्च कटकः करटो हस्तिगण्डके ।मदो दानं हस्तिमदे कर्णास्फाले सनः सनी ॥
अनुष्टुप्
genderपुंmasc.
मेखला कटकोऽस्त्री स्याद्गह्वरं तु गुहा दरी ।कन्दरः कन्दरा कुञ्जनिकुञ्जौ वा नपुंसकौ ॥ ४१२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
समे त्वङ्गदकेयूरे वलयं कटकोऽस्त्रियाम् ।कङ्कणं करभूषा स्यादङ्गुलीयकमूर्मिका ॥ ११६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderक्लीneut.
स्कन्धावारस्तु कटकः शिबिरं तु बलस्थितिः ।आदिराजः पृथुर्वैन्यः काकुत्स्थस्तु पुरञ्जयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कुलिशध्वजकार्षापणपिनाकमुस्तान्धकारशृङ्गवलयाः ।पटलप्रवालचषकोपवासकासारकटकसन्तानाः ॥ ११ ॥
गीतिःmetre not read in every line
genderपुंक्लीm. n.
कूटोऽस्त्री शिखरं शृंगं नितंबः कटकोऽस्त्रियाम् ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला दृषत् ॥ ८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पत्तनं चाप्यथानृंगे नृंगो द्रुंगं विवेशिका ।कटकोऽस्त्री संवासः स्कन्धावारश्च राजधानी स्यात् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
आवापकः पारिहार्यं वलयं कटकोऽस्त्रियाम् ।पादेऽसौ हंसकः स्त्रीणामंगुलीयकमूर्मिका ॥ १४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सेनायामपि कटकं प्राणिद्यूतं वदन्ति युद्धेऽपि ।रक्षस्यपि पुण्यजनं मृद्भाण्डेऽप्युष्ट्रिकामार्याः ॥ ७९० ॥
आर्या
meaningsसेना
कटको वलये सानौ जलधिलवणेऽपि च ।कटको राजस्थानेऽपि मण्डने द्विरदस्य च ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ल (wrong syllable); pāda 3, syllable 5 ज (wrong syllable)
कटकोऽस्त्र्यद्रिनितम्बेवलये स्याद्राजधान्यां च ।तद्वत्समुद्रलवणेदन्तावलदन्तमण्डने चोक्तम् ॥ ३६ ॥
metre not recognised
सैन्ये च राजधान्यां चामरदत्तस्तु पुंस्यमुम् ।हस्तमुष्टावभाषिष्ट स्त्रियां तु कटिका कृते ॥ ३१८ ॥
अनुष्टुप्
doubtful
कटकोऽस्त्री दन्तिदन्तमण्डनेऽचलमध्यके ।सामुद्रलवणे राजधान्याञ्च बलयेऽपि च ॥
अनुष्टुप्
क्षुद्रशत्रौ द्रुमाङ्के च रोमहर्षे च कण्टकः ।भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥ २०६० ॥
अनुष्टुप्
रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम् ।राजधान्यां नितम्बेऽद्रेर्वलये कटकोऽस्त्रियाम् ॥ १२ ॥
अनुष्टुप्
कलिलं गहने बृन्दे सैन्येऽपि कटकोऽस्त्रियाम् ।किञ्जल्कः केसरे खे क्ली कृषकौ फालकर्षकौ ॥ ३१ ॥
अनुष्टुप्
meaningsसैन्य
कटक as a meaning in nānārtha verses
- धरणिकोश वालकवालकं कटकमङ्गुरीयकं वालको द्विरदवालधिः स्मृतः । वालकाश्च शिशुकुन्तलाङ्गका वालकोऽपि च सुगन्धिकौषधिः ॥ Dharaṇikośa 1.3.10
- कोषकल्पतरु रुचकस्याद्रोचने कटकयोः क्षुरकः पुनरिक्षुरे त्रिकण्टे च । अतिमुक्तेऽशोकतरौ कामुक आद्येऽभिके परवत् ॥ ४१ ॥ Koṣakalpataru 6.1.41
- कोषकल्पतरु नितम्बहेरम्ब उक्तो नरि विघ्नराजे कासारके शौर्यबलेन दृप्ते । स्कन्धे नितम्बः कटके तथाद्रे- स्तीरे स्त्रियाश्चापि कटीप्रदेशे ॥ ३३ ॥ Koṣakalpataru 6.24.33
- कोषकल्पतरु पादपाशीशंभौ तथा चूर्णविलेपिनि स्या- द्राहौ च खण्डामलकौषधे च । स्थाच्छृङ्खलायां[83a]कटके च पादु- कायां तथा योषिति पादपाशी ॥ ३६ ॥ Koṣakalpataru 6.30.36
- नानार्थार्णवसंक्षेप वलयअस्त्री हलसमाख्येषु वर्णेषु स्यादथास्त्रियाम् । वलयं कटके ना तु महोदर्याख्यमुस्तके ॥ १५९६ ॥ Nānārthārṇavasaṃkṣepa 4.1596
- परमानन्दीयनाममाला गुल्मगुल्मो वृक्षान्तरे घट्टविशेषे कटके स च । ग्रहोऽर्कादावुपादाने गतिर्यात्रा दशापि च ॥ १५९ ॥ Paramānandīyanāmamālā 5.9.159
- शब्दरत्नाकर दन्तदण्डः सैन्ये दमे यष्ट्यां मेढ्रे पार्श्वचरे रवेः । वने वनानले दावदवौ दन्तस्तु भूभृताम् ॥ १९३५ ॥ Śabdaratnākara 4.1.1935