कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मन्दिर

mandiraक्ली · neut.

In 19 kośas: 29 synonym verses, 6 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.353 · p. 26
ऊरुसंधिर्वङ्क्षणः स्यात्सक्थ्यूरुस्तस्य पर्व तु ॥ ६१३ ॥जानुर्नलकीलोऽष्ठीवान्पश्चाद्भागोऽस्य मन्दिरः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 की (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.79 · p. 39
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.5
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.291 · p. 35
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त भुवनसञ्ज्ञा Gaṇitanāmamālā 6.52 · p. 3
आलयं भुवनं गेहं गृहं क्षेत्रं च मन्दिरम् ॥ ५२ ॥
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.4 · p. 9
वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् ।स्यादभिष्यन्दिवमनमुपपर्यायतः पुरम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.34 · p. 12
एडूकमेडुकं न स्त्री स्यातामथ निवेशनम् ।सदनं सादनं वेश्म भवनं मन्दिरं विटम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.215 · p. 44
अस्त्र्यष्ठीवत्तस्य पर्व वारकीलोथ तस्य तु ।पश्चाद्भागे मन्दिरः स्यात्प्रत्यग्रं तदधः पुनः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.262 · p. 49
अर्द्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दिराः ।अपि गोस्तनगोपुच्छावर्द्धमर्द्धं यथोत्तरम् ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.36 · p. 421
वल्लभो मङ्गलश्चापि षडुक्ता मण्डका अथ ।अमरो मन्दिरश्चापि विचारः कुन्दसंज्ञकः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.132 · p. 476
स्याद्गात्रापरनासीरमन्दिराणां ततः परम् ।मयूरकादम्बरयोः शस्त्रस्य नगरस्य च ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.33 · p. 122
कुटिर्द्वयोः पुंसि न मन्दिरा स्यात्स्त्रियां न गेहं भवनं च वास्तु ।स्थानं च धानं वसतिश्च शालासभा निशान्तं च निकेतनं च ॥ ३३ ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.153 · p. 213
टङ्के नलकिनी टङ्गो अष्ठीवज्जानु चास्त्रियौ ।नलकीलश्चोरुपर्व पश्चाद्भागोऽस्य मन्दिरः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 258
किणौ कक्षाधरेऽथाधोमन्दिरे समुदीरिते ।पृष्ठभागे मन्दिरयोरुक्ते जानु-कपालिके ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.83 · p. 117
genderस्त्रीक्लीf. n.
स्थाल्यादीनां स्त्रीत्वं भवति । इयं स्थाली रन्धनभाण्डम् । सभा गोष्ठी । जरा वृद्धत्वम् । स्थली उच्चनिर्जलो देशः । वीची तरङ्गः । छविर्लावण्यम् । कटिः श्रोणी । मञ्जरी वृक्षस्य । वल्ली लता ।शिल्पं छर्दिस्त्वन्नं शमलमरकतपलाशकृच्छ्राणि ।मन्दिररिक्ते च नपुंसके मन्दुरां तु स्त्रियां विद्धि ॥ ८० ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 132 · p. 66
सदनं सद्म भवनं धिष्ण्यं वेश्माथ मन्दिरम् ।गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.270 · p. 38
मार्गत्रयं च शृङ्गाटं चत्वरं बहुपथं स्मृतम् ।मन्दिरं सदनं गेहं गृहं सद्म निकेतनम् ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.271 · p. 134
वङ्क्षणस्तूरुसन्धिः स्यात्सक्थ्यूरुस्तस्य पर्वणि ।नलकीलस्तथा जानु पश्चाद्भागोऽस्य मन्दिरः ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.6.172 · p. 231
genderस्त्रीक्लीf. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.8 · p. 1
सदनं भवनागारे मन्दिरं तल्पमाशया ।शय्या पर्य्यङ्कगः? खट्वाऽऽस्तरणं तूलिका सुवा? ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.68 · p. 26
मन्दिरं सदनं सद्म निलयो भवनं गृहम् ।ओको निवास आवासो धिष्ण्यं धाम निकेतनम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.990 · p. 152
अष्ठीवान्नलकीलश्च जानुर्नाम त्रयं भवेत् ।पश्चाद्भागोऽस्य मन्दिरः कपोली त्वग्रिमः पुनः ॥ ९९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्दि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1696 · p. 273
अगारञ्च गृहं गेहं सदनं सद्म मन्दिरम् ॥ १६९६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.13 · p. 50
स्यान्निकाय्यो निवसनं केतो भवनमन्दिरम् ।आलयश्च गृहाः पुंसि भूम्नि कूटो द्वयोः सभा ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.34 · p. 220
गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटिः ।कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कः (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.842 · p. 106
सदनभवनवेश्मसद्मगेहावसथनिवेशनमन्दिरास्पदानि ।केचिदावसथं पुंसि निकेतं च प्रचक्षते ॥ ८४२ ॥
पुष्पिताग्राtwo metres in one verse
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 88 · p. 536
निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम् ॥ ८८ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.18 · p. 160
शय्यं निवसनं सद्म बुन्दिरं वेश्म मन्दिरम् ।निकार्यवासावसथनिकाय्यनिलयालयाः ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.184
पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ।मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८४ ॥
अनुष्टुप्
meanings
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.20 · p. 164
भ्रामरं मधुनि गाव्णि मन्दिरं नगरे गृहे ।तिमिरं ध्वान्ताक्षिरुजोरुद्धार उद्धृतावृणे ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.7 · p. 318
न मन्दिरं ना सदने पुरेऽन्त्येपुमान्समुद्रे विवरं तु गर्त्ते ।स्याच्छिद्ररन्ध्रप्रतिमं च दोषेपूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1349 · p. 165
मन्दिरं तु पुरे गेहे क्लीबमब्धौ तु पुंस्ययम् ।मथितं तु क्लीबलिङ्गं निर्जले गोरसे कृते ॥ १३४९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.94 · p. 272
मन्दारः पारिभद्रे स्याद्दद्रुपर्णे शरद्रुमे ।मदारो धूर्तकरिणोर्मन्दिरं नगरे गृहे ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.27 · p. 252
मणीचमग्रहस्तेऽपि पुष्पमौक्तिकयोरपि ।मन्दिरं देहपुर्योश्च संबन्धे मैथुनं रते ॥ २७ ॥
अनुष्टुप्

मन्दिर as a meaning in nānārtha verses