परभृत्
parabhṛtपुं · masc.In 8 kośas: 7 synonym verses, 1 as a nānārtha head word.
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।
अनुष्टुप्
genderपुंmasc.
बलिपुष्टः पुलकारिर्नाडिजङ्घो प्रभृष्टकः ।धूलिजङ्घोन्यवापश्च परभृद्वायसोऽन्यपुः ॥ २९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
आत्मघोषो गूढकामी धूलिजङ्घो निमित्तकृत् ।एकदृक्परभृद्द्रोणो नाडीजङ्घः कणूककः ॥स्त्रियां काकोलूकिका स्याद्वैरे वायसघूकयोः ।झम्पाशी मत्स्यरङ्कुर्वा रञ्जो मद्गुर्मलीरकः ॥कालकण्ठश्च दात्यूहः काकोलस्तु वनोद्भवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
काकोऽरिष्टो द्विको ध्वाङ्क्षो घूकारिः करटोऽन्यभृत् ।एकदृक् चिरजीवी च वायसः परभृत् पुनः ॥ २३९४ ॥
अनुष्टुप्
genderपुंmasc.
काकोऽरिष्टः करटकः करटो नगरीवकः ।बलिपुष्टश्च परभृत् वायसो गूटमैथुनः ॥
अनुष्टुप्
genderपुंmasc.
ध्वाङ्क्षो नालीजङ्घो नाडिजङ्घः सकृत्प्रजः परभृत् ।काकः करटोरिष्टो बलिपुष्टो वायसो बलिभुक् ॥ ७९० ॥
metre not recognised
genderपुंmasc.
बलिपुष्ट उलूकारिर्नाडिजंघोऽप्रहृष्टकः ।धूलिजंघोऽन्यवापश्च परभृद्वायसोऽन्यपुट् ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.