कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

चतुर्दशोपदेशः

इति नत्कीरविरचितायां बालप्रबोधिकायां त्रयोदशोपदेशः ।

पक्षी पतत्रिपतगौ विहङ्गो विर्विहङ्गमः ।पिल्लाकः पक्षिपोते स्यात् हंसो धूमललोचनः ॥ २८९ ॥
14.289 · p. 92
अनुष्टुप्
मरालः शुक्लपक्षश्च मानसौकाः सितच्छदः ।परिप्लावी चक्रदेहः सूचिको जालपादकः ॥ २९० ॥
14.290 · p. 92
अनुष्टुप्
राजहंसस्तु तद्भेदे धार्तराष्ट्रः सितेतरे ।वरटा हंसकान्ता स्यात् वराला वरलापि च ॥ २९१ ॥
14.291 · p. 92
अनुष्टुप्
हंससाचिः क्षुद्रहंसश्चक्रवाकस्तु चक्रवाक् ।कोकश्चक्रः कोटरुश्च बलोटोपक इत्यपि ॥ २९२ ॥
14.292 · p. 92
अनुष्टुप्
बलाको बिसकर्णिश्च बकभेदे तु दार्विका ।मद्गुस्तु जलकाकः स्यात् अटिस्त्वाटिः शराटिकः ॥ २९३ ॥
14.293 · p. 92
अनुष्टुप्
कारण्डवो महापक्षो जलरङ्गस्तु वञ्जलः ।कुक्कुटो दीर्घपादश्च जालपादोऽम्बुकुक्कुटः ॥ २९४ ॥
14.294 · p. 92
अनुष्टुप्
बलिपुष्टः पुलकारिर्नाडिजङ्घो प्रभृष्टकः ।धूलिजङ्घोन्यवापश्च परभृद्वायसोऽन्यपुः ॥ २९५ ॥
14.295 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
व्याघ्राटस्तु भरद्वाजः क्षिप्रः श्येनः सपर्णिकः ।वाचालमुखराशारिकोयष्टिः शेखरीति च ॥ २९६ ॥
14.296 · p. 93
अनुष्टुप्
कुलटः कुक्कुटो गर्तकुक्कुटः पेचिका पुनः ।उलूकः पेचकः कुण्डः काकारिर्हरिलोचनः ॥ २९७ ॥
14.297 · p. 93
अनुष्टुप्
खञ्जनः खञ्जरीटः स्यान्मिथुनो वसुदृग्विधुः ।श्रीमान्त्रिकेतुर्मेधावी शुकस्त्वलिफलाशनः ॥ २९८ ॥
14.298 · p. 93
अनुष्टुप्
दरणो रजकश्चेति कोकिलः पिक इत्यपि ।वसन्तकर्णी मधुवान् कालकण्ठो वनप्रियः ॥ २९९ ॥
14.299 · p. 93
अनुष्टुप्
भृङ्गः कलिङ्गो धूम्याटो राजहंसस्तु बुद्धिमान् ।किकिर्दिविः स्वर्णचूडः चषो राजविहङ्गमः ॥ ३०० ॥
14.300 · p. 93
अनुष्टुप्
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।शशादनो वर्तुलाक्षः श्येनोऽपि च निगद्यते ॥ ३०१ ॥
14.301 · p. 93
अनुष्टुप्
सारसे शतपत्रः स्याल्लक्ष्मणा सारसप्रिया ।चकोरस्तु चलच्चञ्चुः कपिबश्चन्द्रिकाप्रियः ॥ ३०२ ॥
14.302 · p. 93
अनुष्टुप्
मयूरो बर्हिणो बर्ही चित्रपत्रस्तु चन्द्रकी ।वर्षामतिर्भुजङ्गारिः श्यापटिश्चित्रपिङ्गलः ॥ ३०३ ॥
14.303 · p. 93
अनुष्टुप्
शब्दस्य केका बर्हस्तु प्रचलापकलापकौ ।अलिर्द्विरेफो लम्बोभसवः पुष्पलोलुपः ॥ ३०४ ॥
14.304 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
मधूकरश्चञ्चरीको सारङ्गस्तु शिलीमुखः ।हिन्दोलो गन्धिलावासः कुसुमातिथिरीर्यते ।पतङ्गः शालभे तु स्याद्दंशस्तु वनमक्षिका ॥ ३०५ ॥
14.305 · p. 93
अनुष्टुप्metre not read in every line