आत्मघोष
ātmaghoṣaपुं · masc.In 9 kośas: 9 synonym verses.
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।
अनुष्टुप्
genderपुंmasc.
आत्मघोषो महालोलश्चिरायुर्मुखरः खरः ।नाडीजङ्घः काशिकारिः सत्यवाङ्नगरीवकः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
आत्मघोषो गूढकामी धूलिजङ्घो निमित्तकृत् ।एकदृक्परभृद्द्रोणो नाडीजङ्घः कणूककः ॥स्त्रियां काकोलूकिका स्याद्वैरे वायसघूकयोः ।झम्पाशी मत्स्यरङ्कुर्वा रञ्जो मद्गुर्मलीरकः ॥कालकण्ठश्च दात्यूहः काकोलस्तु वनोद्भवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
चिरजीवी द्विकः काक आत्मघोषः सकृत्प्रजः ।अरिष्टः करटो घूकारातिर्ध्वाङ्क्षोऽन्यभृत्पुनः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
स्तोककश्चातके प्रोक्तः कृकवाक(कु?)स्तु कुक्कटे ।आत्मघोषस्तु काके स्यात्काकोलो वृद्धकारवे ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
बलिभुक् बलिपुष्टश्च मौकुलिश्च सकृत्प्रजः ।आत्मघोषश्च नामानि कथ्यन्ते काकपक्षिणः ॥ २३९५ ॥
अनुष्टुप्
genderपुंmasc.
आत्मघोषो महानेमिरन्यवापश्च मौकुलिः ।मद्गुस्तु द्रोणकाकः स्यात् काकोलो जलवायसः ॥ ७९१ ॥
अनुष्टुप्
genderपुंmasc.
काकस्तु द्विक एकाक्षश्चिरजीवी दिवाटनः ।आत्मघोषो महानेमिः कण्टको मौकलिः कुणः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.