कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सकृत्प्रज

sakṛtprajaपुं · masc.

In 12 kośas: 14 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1322 · p. 50
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.27
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.245 · p. 30
अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.6 · p. 318
गन्धोष्णीषो व्यादितास्यो वनराजो गणेश्वरः ।हस्तिपर्यायशत्र्वर्थो नभःक्रान्तः सकृत्प्रजः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.96 · p. 328
सकृत्प्रजोऽपकृष्टः स्याद्वलिपुष्टो निमित्तकृत् ।लुण्ठाको वलिभुक्काणः परमृत्युश्च शक्रजः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 189
सिंहो हरिः पञ्चशिखो मृगेन्द्रो मृगारि-नागारि-नखायुधाः स्युः ।पारीन्द्र-कण्ठीरव-जङ्गमाद्रि-शैलाट-विक्रान्त-सकृत्प्रजाश्च ॥ १ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 197
घूत्काकरो दिवाभीतो दिवान्धो हृदिलोचनः ।प्रतिसूर्यः काकरूकः काकः पीयुः सकृत्प्रजः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.649 · p. 82
सहचारिणि तु त्रिः स्यात् सहसानः पुनर्द्वयोः ।मयूरे यजमाने तु त्रिर्दृढेऽथ सकृत्प्रजः ॥ ६४९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.224 · p. 80
चिरजीवी द्विकः काक आत्मघोषः सकृत्प्रजः ।अरिष्टः करटो घूकारातिर्ध्वाङ्क्षोऽन्यभृत्पुनः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.371 · p. 26
काकः करटकोऽरिष्टो द्विको ध्वाङ्क्षः सकृत्प्रजः ।श्यामकाको द्रोणकाकः काकोलः काकनायकः ॥ ३७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2395 · p. 386
बलिभुक् बलिपुष्टश्च मौकुलिश्च सकृत्प्रजः ।आत्मघोषश्च नामानि कथ्यन्ते काकपक्षिणः ॥ २३९५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.52 · p. 86
लुण्ठाकः श्रावको ध्वाङ्क्ष आत्मचोषो रतज्वरः ।द्विककारः कारवः स्याद् नाडीजङ्घः सकृत्प्रजः ।सत्यवाक् अप्रकृष्टः स्यात् बलिभुग्यमदूतकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.790 · p. 100
ध्वाङ्क्षो नालीजङ्घो नाडिजङ्घः सकृत्प्रजः परभृत् ।काकः करटोरिष्टो बलिपुष्टो वायसो बलिभुक् ॥ ७९० ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.17 · p. 27
द्रोणः सकृत्प्रजोऽरिष्टो ध्वांक्षः करट इत्यपि ।कृष्णकाको वृद्धकाक ऐन्द्रिः काकोल आसुरः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.650 · p. 82
द्वे सिंहकाकयोर्न्याये पुनः क्लीबं समञ्जसम् ।अजयस्तु त्रिरभ्यस्तेऽप्युचितेऽप्याह ना पुनः ॥ ६५० ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2228 · p. 269
शंकुकर्णौ गर्दभोष्ट्रौ शरभृङ्गौ शिलीमुखौ ।श्रीवत्साङ्कौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ॥ २२२८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.45 · p. 268
श्रीवत्सांकौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ।सहसानुर्मयूरेऽहौ संप्रयोगो रतेऽन्वये ॥ ४५ ॥
अनुष्टुप्