कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

परिस्पन्द

parispandaपुं · masc.

In 6 kośas: 6 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.133 · p. 5
रचनायां परिस्पन्दः प्रतियत्नोऽथ कुण्डले ।कर्णादर्शो मेखला तु लालिनी कटिमालिका ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.306 · p. 36
परिवारः परिकरः परिस्पन्दः परिग्रहः ।तथोपकरणं प्रोक्तं परिवर्हः परिच्छदः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.58 · p. 249
परिस्पन्दः परिकरः परिबर्हः परिच्छदः ।परिग्रहः परीवारस्तन्त्रोपकरणे अपि ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.51 · p. 34
व्यतिहारो मि[181a]थः कर्म तत्र गम्ये स्त्रियामिमाः ।व्यावचोरी व्यावचर्ची व्यावक्रोशीति दिक्स्मृता ।सन्संदर्भो गुम्फो गोफोऽस्त्री ना परिस्पन्दः ।पुणनं कर्मणि पुण्येऽथाभोगः स्यात्प्रपूर्णत्वम् ॥ ५१ ॥
metre not recognised
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.197 · p. 50
माल्यानां विविधप्रोक्तरचनायां तु कथ्यते ।परिस्पन्दोऽथ चाभोगो रचनायां प्रचोदितम् ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.51 · p. 177
स्वजनो बांधवो बन्धुः कुटुंबन्तु सुतादिकम् ।परिवारः परिजनः परिस्पन्दः परिग्रहः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.82 · p. 13
परिस्पन्दः परिजने स्पन्देऽथ परिवापवाक् ।द्विदीर्घेण परीवापशब्देनैकात्मिका हि सा ॥ ८२ ॥
अनुष्टुप्