गुम्फ
gumphaपुं · masc.In 10 kośas: 9 synonym verses, 3 as a nānārtha head word.
संदर्भो रचना गुम्फः श्रन्थनं ग्रन्थनं समाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderपुंmasc.
अपह्नवोऽपलापः स्यादपज्ञानमपात्ययः ।श्रन्थनं ग्रन्थनं गुम्फः सन्दर्भो रचना स्मृता ॥ ७३० ॥
अनुष्टुप्
genderपुंmasc.
अथाप्यानन्दनं चाप्रच्छनं चापि सभाजनम् ।ग्रन्थनं ग्रथनं गुम्फः प्रतिपत्तिः प्रगल्भता ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
व्यतिहारो मि[181a]थः कर्म तत्र गम्ये स्त्रियामिमाः ।व्यावचोरी व्यावचर्ची व्यावक्रोशीति दिक्स्मृता ।सन्संदर्भो गुम्फो गोफोऽस्त्री ना परिस्पन्दः ।पुणनं कर्मणि पुण्येऽथाभोगः स्यात्प्रपूर्णत्वम् ॥ ५१ ॥
metre not recognised
genderपुंmasc.
प्रालम्बं डुम्बणं तुल्यमृजुलम्बि तथा मतम् ।ग्रन्थनं रचना गुम्फः संदर्भो रचनं पुनः ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः ।कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
सन्दर्भो श्रन्थनं गुम्फो ग्रन्थनं रचना पुनः ।प्रतियत्नः परिस्यन्दः पुष्पमालाविशेषकः ॥ १०५८ ॥
अनुष्टुप्
genderपुंmasc.
परभागः परोत्कर्षे प्रणये सान्त्वना न ना ।प्रणिपातस्त्वनुनये त्वासारश्च सुहृद्बले ।प्रबन्धे गुम्फसन्दर्भेग्रन्थाश्च रचना न ना ॥
अनुष्टुप्
genderपुंmasc.
वर्णनं स्याद्विभजनं प्रवाहस्तु परंपरा ।श्रन्थनं ग्रन्थनं गुंफः संदर्भो रचना न ना ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
गुम्फो बाहोरलंकारे गुम्फो ग्रन्थनमात्रकम् ।शफं खुरे गवादीनां मूले चापि प्रकीर्तितम् ॥
अनुष्टुप्
गुम्फन्तु गुम्फने श्मश्रुभेदे बाह्वोरलङ्कृतौ ॥