बान्धव
bāndhavaपुं · masc.In 15 kośas: 14 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.
भ्राता च भगिनी चापि भ्रातरावथ बान्धवः ।स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः ॥ ५६१ ॥आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः ।
अनुष्टुप्
genderपुंmasc.
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
आत्मीयः स्वजनो बन्धुराप्तो ज्ञातिश्च बान्धवः ।सनाभयः सपिण्डाश्च सगोत्राश्च समाः स्मृताः ॥ ५०९ ॥
अनुष्टुप्
genderपुंmasc.
सर्वेऽमी पितरः पूर्वे पूर्वजा अथ बान्धवाः ।सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
पितरः पितृवंश्याः[80b] स्युर्मातुर्मातामहाः कुले ।स्वो ज्ञातिःस्वजनो बन्धुर्बान्धवश्चारिकोऽपि सः ॥ १० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
समौ पिता च माता च पितरावेकशेषतः ।बान्धवः स्वजनो ज्ञातिः सगोत्रः स्वनिजावपि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
तातो द्वितो जनुकरो भ्राता बन्धुः सहोदरः ।सहजन्मा सहजनु सहजो बान्धवोऽनुजः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
भ्राता सहोदरो बन्धुः सहजो बान्धवोऽपि च ।भगिनी तु स्वसा जामिर्दंपती दयितापती ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
स्वः स्वजनः सगोत्रश्च ज्ञातिर्बन्धुश्च बान्धवः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
genderपुंmasc.
ज्ञातिस्वबन्धुदायादगोत्रस्वजनबान्धवाः ।ज्ञातेयं ज्ञातिभावे स्याद् बन्धुवृन्दे च बन्धुता ॥
अनुष्टुप्
genderपुंmasc.
पितरः पितृशब्दश्च ज्ञातौ स्वः स्वजनस्तथा ।बान्धवो बन्धुरात्मीये स्व-स्वकीये नपुंसके ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
समानोदर्यसोदर्यौ सगर्म्यः सहजश्च सः ।सनाभयः सपिण्डाः स्युर्बन्धुस्वज्ञातिबान्धवाः ॥ ११३८ ॥
अनुष्टुप्
genderपुंmasc.
रीतिः प्रवृत्तौ वृद्धौ तु स्फातिर्ज्ञातिस्तु बान्धवे ।प्रमा तु प्रमितौ श्रायः श्रयणे मार्जने मृजा ॥ १६९९ ॥
अनुष्टुप्
genderपुंmasc.
स्वजनो बांधवो बन्धुः कुटुंबन्तु सुतादिकम् ।परिवारः परिजनः परिस्पन्दः परिग्रहः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
हेतौ तथाधारत ईरितोऽय-माधेयकस्यानतिरिक्ततायाम् ।स्याद्वान्धवो बन्धुसुहृद्गतो नापञ्चत्वमन्तेऽपि च पञ्चभावे ॥ २७ ॥
इन्द्रवज्रा
doubtful
बृहत्या बृहतश्चापि सम्बन्धिन्यथ बान्धवः ।द्वे बन्धौ त्रि तु बन्धोः स्यात् सम्बन्धिन्यथ न स्त्रियाम् ॥ १२५६ ॥
अनुष्टुप्
बान्धव as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् दायादअपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ । Amarakośa 3.3.172
- धरणिकोश दायादआमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ । तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥ Dharaṇikośa 17.1.6
- कोषकल्पतरु ज्ञातिधात्र्यामथो बान्धवतातयोः स्या- ज्ज्ञातिर्द्वयोः प्रातिरियं प्रदेशे । पूर्तौ च बस्तिस्तु युगे च नाभे- रधोनिरूहेऽपि दशासु भूम्नि ॥ ६३ ॥ Koṣakalpataru 6.16.63
- कोषकल्पतरु बन्धुसाधुर्भवेद्वार्धुषिके मनोज्ञे स्यात्सज्जने पुंसि तु बन्धुजीवे । स्याद्बान्धवे भ्रातरि चापि बन्धु- र्वधूर्नवोढागृहिणीस्नुषासु ॥ ६७ ॥ Koṣakalpataru 6.20.67
- शब्दरत्नावली बन्धुनद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः । बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥ बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः । बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥ बोधः समाधिभेदे ना तथा पिप्पलभूरुहे । मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥ पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥ Śabdaratnāvalī 7.19.8
- शब्दरत्नावली कुटुम्बकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
- शब्दरत्नाकर बन्धुआधिबन्धनयोर्बन्धो बन्धुर्बान्धवकामयोः । बलो रामे दैत्यभैदे काके बलवति त्रिषु ॥ १९६६ ॥ Śabdaratnākara 4.1.1966