कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मेखला

mekhalāस्त्री · fem.

In 20 kośas: 36 synonym verses, 9 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.664 · p. 28
साक्षराङ्गुलिमुद्रा सा कटिसूत्रं तु मेखला ।कलापो रशना सारसनं काञ्ची च सप्तकी ॥ ६६४ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.150 · p. 40
मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.133 · p. 5
रचनायां परिस्पन्दः प्रतियत्नोऽथ कुण्डले ।कर्णादर्शो मेखला तु लालिनी कटिमालिका ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.190
स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा ॥ १०८ ॥क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.150
त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.560 · p. 63
कलापः सप्तकी काञ्ची मेखला रसना तथा ।कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.267 · p. 50
स्त्री मेखला च रसना काञ्चिः कक्ष्या च कक्षया ।पुंस्कट्यां शृङ्खलं तु स्यात्त्रिषु पादाङ्गुलस्य षण् ॥ २६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.16 · p. 70
देवपर्यायलक्ष्माथ स्त्रियां मौञ्जी तु मेखला ।ज्योर्णासूत्री कठक्षत्रविशामेषां ह्यनुक्रमात् ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.459 · p. 300
गर्दभी चन्द्रिका रामा क्लिन्ना सैव महौषधी ।सा चोक्ता कटुवार्त्ताकी पृश्निपर्णी तु मेखला ॥ ४५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.18 · p. 342
मेखला मध्यभागोऽद्रेर्नितम्बः कटकोऽस्त्रियाम् ।द्रोणी तु शैलयोः सन्धिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.30 · p. 464
मेला माला मेखला स्याद्रसाला लालया समा ।सुवर्चला सिध्मलाऽपि हेलया सर्वला समा ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.13 · p. 128
शैलाग्रं शृङ्ग-शिखर-कूटानि त्री[13b]णि न स्त्रियाम् ।कूटनिः(?) स्त्री नितम्बोऽद्रेर्मेखला कटकोऽस्त्रियाम् ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.73 · p. 103
विशाला मेखला मालुर्हर्षुला संकुला शिली ।शृगाली कदली भद्रकाली मद्यार्थकोऽप्यलिः ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 9 · p. 4
प्रस्थं पार्श्वं तटं सानुर्मेखलोपत्यका तटी ।नितम्बमन्तो दन्तश्च तद्वानपि गिरिः स्मृतः ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 119 · p. 60
भूषणाभरणं रुच्यं माल्यं मालागुणस्रजः ।मेखला रसना काञ्ची हेमपर्यायसूत्रकम् ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.312 · p. 43
तटे भृगुः प्रपातोऽथ शिखरे शृङ्गकुटके ।नितम्बमेखले भूध्रमध्ये च कटकस्तथा ॥ ३१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.311 · p. 140
मेखला कटिसूत्रं स्यात्काञ्ची सारसनं तथा ।कलापो रसना चैव शृङ्खला पुंस्कटीस्थिता ॥ ३११ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.56 · p. 217
उपला मेखला शाला खट्वा [कला?] दिशा शिवा ।रसाला सिध्मला शेषा स्नसा मूषा सुवर्चला ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.165 · p. 46
रशनायां सारसनं सप्तकी मेखलेति च ।स्त्रीणां स्यात्पुरुषाणां तु शृङ्खलं परिकीर्तितम् ॥ १६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.104 · p. 8
मेखला सप्तकी काञ्ची रसना क्षुद्रघण्टिका ।अञ्जनं कज्जलं दैपं सिन्दूरं[र] स्त्रीविभूषणम् ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.52 · p. 24
रसना मेखला काञ्ची कलापश्चापि सप्तकी ।कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1078 · p. 166
मेखला लालिनी चेति स्त्रीकटिस्था हि कथ्यते ।पुनः सा पुंस्कटिस्था वै शृङ्खलं मन्यते बुधैः ॥ १०७८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.275 · p. 291
नितम्बो मेखला नाम कटको गिरिमध्यभाक् ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.114 · p. 44
सोमोद्भवा मेखला च तथा मेखलकन्यका ।करतोया सदानीरा सदानीरवहापि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.354 · p. 105
कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला ।सारसनं सरसनं रसना रशना तथा ॥रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् ।अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.343 · p. 133
तत्र तालतलश्चेति क्वचित् केचित् प्रचक्षते ।मेखलाच्छीकला क्षेतु खड्गादिकनिबन्धने ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.412 · p. 55
मेखला कटकोऽस्त्री स्याद्गह्वरं तु गुहा दरी ।कन्दरः कन्दरा कुञ्जनिकुञ्जौ वा नपुंसकौ ॥ ४१२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1167 · p. 143
कलापो मेखला काञ्ची रशना सप्तकीति च ।क्लीबे सारसनं क्षुद्रघण्टिका किङ्किणी समे ॥ ११६७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1226 · p. 150
स्यात्तु सारस्वतो बैल्व औदुम्बर उलूखलः ।मौञ्जी तु मेखला सा तु मौर्वी स्यादेकमेखला ॥ १२२६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1346 · p. 163
दन्तत्सरू द्वौ खड्गादेर्मुष्टौ बन्धस्तु मेखला ।हस्तिचारो जगत्त्रासहेतुः शरभसंनिभः ॥ १३४६ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.57 · p. 32
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.17 · p. 84
भिक्षाचारः कौक्कुटिकस्त्रिषु स्यादौर्ध्वरथ्यकः ।मौञ्जी तु मेखला क्षोणी मौर्वी त्वेकलमात्रिका ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.146 · p. 170
कटिसूत्रं सारसनं मेखला रशनाथ सा ।स्त्रीकट्यां सप्तकी कांची पुंस्कट्यां शेखला त्रयी ॥ १४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.824 · p. 95
नीवी परिपणेऽप्युक्ता कटिदेशेऽपि मेखला ।प्रत्यवायेऽपि विश्लेषे विधुरं स्मर्यते बुधैः ॥ ८२४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.32 · p. 195
संकुलं कथितं व्याप्ते विस्पष्टार्थे वचस्यपि ।मेखला खड्गबन्धे स्यात्काञ्चिशैलनितम्बयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.53 · p. 352
विशेष्यवत्स्यान्नरि तु प्लवङ्गेचूडाल एतत्सहितेऽन्यवत्स्यात् ।स्त्री तूच्चटायामथ मेखलास्त्र-बन्धे च काञ्च्यां कटके गिरेश्च ॥ ५३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.71 · p. 7
पुण्डिकासंज्ञकेऽथ स्याद् मेखला कटिसूत्रके ।काच्यामिति तु सिंहाद्याः श्रोणिस्थाने तु केचन ॥ ७१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.72 · p. 7
खड्गत्सरु निबध्नन्ति येन द्रव्येण तत्र च ।पर्वतस्य नितम्बेऽपि रशना त्वङ्गुलावपि ॥ ७२ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.85 · p. 282
माचलोऽपि ग्रहे रोगे स्यात्पुमान् वन्दिचौरयोः ।मुषली तालमूल्याखुपर्णिकागृहगोधिषु ॥मेखला स्त्रीनितम्बे स्यात्स्त्री काञ्ची खड्गकोषयोः ।रसाला रसना दूर्वा विदारी मार्जितासु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2148 · p. 260
असिबन्धनकाञ्च्याद्रिकटकेषु तु मेखला ।पुमानन्योदयद्वेषे मत्सरस्त्रिषु तद्वति ॥ २१४८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.405 · p. 235
मेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे ।निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.18 · p. 248
भित्तिका तु शतावर्यां वज्रे चाप्यथ मेखला ।श्रोणिस्थानेऽद्रिकटके कटिबन्धेऽसिबन्धने ॥ १८ ॥
अनुष्टुप्

मेखला as a meaning in nānārtha verses