कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पल्लि

palliस्त्री · fem.

In 7 kośas: 4 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.

निःश्रेणिरपि निःश्रेणी पल्लिः पल्ली च दृश्यते ।सीमाबन्ता तथा नान्ता नगोह्यः स्याद्दृषत् दृशत् ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.9 · p. 9
आभीरपल्ली घोषः स्याद्ध्रजोनीशोवनान्तरा ।वाटोल्पके तु पल्ली स्त्री पल्लिरप्यथ न स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.69 · p. 102
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.59 · p. 218
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.64 · p. 15
सूर्यपत्नीविशेषेऽथ प्रजा सूनौ जनेऽप्यथ ।पल्लिः कुटीरेऽल्पग्राम आश्रमे व्याधमन्दिरे ॥ ६४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.65 · p. 15
प्राणिभेदे च मुसलीसंज्ञेऽथो पङ्क्तिरावलौ ।चत्वारिंशत्स्वराद्येषु छन्दोभेदेषु सा तथा ॥ ६५ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.301 · p. 200
पल्लिर्भिल्लादिवासे स्यात्प्रजा संतानलोकयोः ।पक्तिस्तु गौरवे पाके पलं मांसे मितावपि ॥ ३०१ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.17 · p. 219
पल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि ।सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥
अनुष्टुप्metre not read in every line

पल्लि as a meaning in nānārtha verses

  • धरणिकोश करटकरटो दुर्दुरूढः स्यात्काकद्विरदगण्डयोः । करटश्च कुसुम्भे स्यात्करटः पल्लिसंज्ञकः ॥ Dharaṇikośa 10.3.11