All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
टान्ताः · टश्लोकः
॥ टश्लोकः ॥
कूटं लोहमये दम्भे निश्चलासत्ययोरपि ।राशिमायाद्रिशृङ्गेषु सीरावयवयन्त्रयोः ॥
10.3.1 · p. 39
अनुष्टुप्
पटुरामयनिर्मुक्तः पटुश्चतुरतीक्ष्णयोः ।पटुः पटोलपत्रे च छत्रायां लवणे पटुः ॥
10.3.2 · p. 39
अनुष्टुप्
कटुस्तीक्ष्णे सुगन्धे च अकार्ये मत्सरे रसे ।कटुः कटुतरायां स्याद्दूषणेऽपि कटु स्मृतः ॥
10.3.3 · p. 39
अनुष्टुप्
पट्टः पेषणपाषाणे पीठे च वस्त्रबन्धने ।पट्टी ललाटभूषायां पट्टी लाक्षाप्रसादनः ॥
10.3.4 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
घटो गजशिरः कूटे समाध्यन्तरकुम्भयोः ।घटा स्याद्घटने हस्तिश्रेण्यां च परिकीर्तिता ॥
10.3.5 · p. 39
अनुष्टुप्
यष्टिहारलतायां स्याद्दारुशस्त्रविशेषयोः ।यष्टिर्ब्राह्मणखट्वा च यष्टिश्च मधुपर्णिका ॥
10.3.6 · p. 39
अनुष्टुप्
अरिष्टं सूतिकागारे लशुने च शुभेऽशुभे ।तक्रेऽपि च तथारिष्टा निम्बफेनिलवायसाः ॥
10.3.7 · p. 40
अनुष्टुप्
मर्कटः स्यादूर्णनाभे कपौ स्त्रीकरणेऽपि च ।मर्कटी शूकशिम्बायां चक्राङ्ग्यां च करञ्जके ॥
10.3.8 · p. 40
अनुष्टुप्
कर्कटः करणे स्त्रीणां राशिभेदकुलीरयोः ।उर्वारुः कर्कटी ज्ञेया कर्कटी शाल्मलीफले ॥
10.3.9 · p. 40
अनुष्टुप्
कुक्कुटस्ताम्रचूडः स्यात् [23] कुक्कुटोऽग्निकणेऽपि च ।उच्चटे जीर्णदन्ते च तालमध्ये च कुक्कुटः ॥
10.3.10 · p. 40
अनुष्टुप्
करटो दुर्दुरूढः स्यात्काकद्विरदगण्डयोः ।करटश्च कुसुम्भे स्यात्करटः पल्लिसंज्ञकः ॥
10.3.11 · p. 40
अनुष्टुप्