कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आजि

ājiस्त्री · fem.

In 19 kośas: 22 synonym verses, 7 as a nānārtha head word, 14 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.606 · p. 32
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.175
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.453 · p. 52
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.348 · p. 127
द्वयोराजिश्च समितिः संयद्राढिः समित्पुनः ।अस्त्रियां समरं चापि जन्यमाहरणं मृधम् ॥ ३४८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.350 · p. 127
प्रघातोभ्यागमश्चापि नन्दनुः संप्रहारकः ।समर्यो भर आक्रन्दः पृतनाज्यौ स्त्रियां पुनः ॥ ३५० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.358 · p. 128
संपरावः समुदयः संस्फोटः कलहोऽस्त्रियाम् ।स्त्रियामाजी च समितिः स्यात् क्लीबे सांपरायिकम् ॥ ३५८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 268
स्त्रीत्वे स्युः समिदाजि-युत्समितयो न स्त्री रणानीकभाक्संख्यं संयुग-संपराय-समराः संयन्न पुंलिङ्गभाक् ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
शीकरतुषारतुषबुद्बुदफेनौसत[तु]ण्डुला[ल]पूपाः पुंसि स्युः ।आलिमुक्ताजिदर्विसिकताः स्त्रिया[यां]मुदिताः ॥ ४६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 87 · p. 44
कदनं समरं युद्धं संयुगं कलहं रणम् ।संग्रामं सम्परायाजी संयदाहुर्महाहवम् ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.395 · p. 151
आहवः संप्रहारोऽपि संस्फोटकलहौ समौ ।अनीकं प्रधानाजी वाक्रन्दः संयुगमित्यपि ॥ ३९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.59 · p. 218
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.384 · p. 74
युद्धे युद्धं सायुधं युदाजिः संपात इत्यपि ।जन्यं संख्यं मृधं कल्पं कलिरास्कन्दनं तथा ॥ ३८४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.26 · p. 36
भारती वाचका वाणी गीर्देवी परमेश्वरी ।आजिर्मनोजवो धीरो नारदः कलहाशनः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.34 · p. 37
संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् ।राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1326 · p. 209
आजिरास्कन्दनं द्वन्द्वं प्रधनं प्रविदारणम् ।आहवः सम्प्रहारो युत् प्रहरणं कलहः कलिः ॥ १३२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रह (syllable split)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1332 · p. 210
आजिभीष्मभूश्च वीराशंसनं वीराशंसनी ॥ १३३२ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.378 · p. 135
स्त्रियां संयत्समित्याजिसमित् सम्वित् युधोऽपि च ॥
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.24 · p. 309
वासिर्वापि स्तथाजिः स्यादिति सद्भिः प्रयुज्यते ।इच्छा जायाप्रभृतयो ज्ञातेः पुंरत्त्वं निपातनात् ।भावमायोभ्यञ्च (?) ब्रह्मभूयञ्च न द्वयोः ।भ्रूणहत्या ब्रह्महत्या भवे च शिष्टप्रयोगतः ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1376 · p. 167
कदनप्रथनक्रन्दनसंख्यसमीकानि संविदाजियुधः ।संयत्समितौ समितिः समररणानीकमस्त्रियां त्रितयम् ॥ १३७६ ॥
गीतिः
genderस्त्रीfem.
साधौ धुर्धर इत्युक्ते स्फटिके त्वच्छमव्ययम् ।आजिः समस्थलेऽपि स्यात् कच्छः स्यात्तटवाचके ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.1 · p. 267
{लिङ्गादिसङ्ग्रहेऽनुक्तममरेणाऽभिदध्महे ।}स्त्रियामाजिर्दरज्जातिः पूरुभाद्राः समाः शरत् ।सिकताद्या बहुत्वेऽपि विंशत्याद्येकवागपि ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.64
समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास जपादः Dharaṇikośa 7.1.1 · p. 31
आजिः समावनौ युद्धे प्रजा संता[19]नलोकयोः ।रुजा भङ्गे च रोगे च निजमात्मीयनित्ययोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ जान्ताः Koṣakalpataru 6.7.26 · p. 174
वक्त्रानताङ्गे त्रिषु कुब्जमाहु-र्वृक्षप्रभेदे निगदन्ति पुंसि ।आजिः समोर्वीक्षणसंगरेषुराजिस्तु रेखाततिवाचिका स्त्री ।लाजास्तु भृष्टेष्वपि शा[268a]लिषु स्युःपुंभूम्नि चार्द्रेष्वपि तन्दुलेषु ॥ २६ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.76 · p. 49
आजिः स्त्रियां क्वचित् पुंसि युद्धे सममहीतले ।आखुर्मूषिकमात्रे स्यादेकेषां सूकरे द्वयोः ॥ ७६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.53 · p. 167
बुद्धौ चित्ते धृतावार्या दुर्गामात्रोस्तथैव च ।आजिर्युद्धे समक्ष्मायामाधिर्मानसवेदना ॥ ५३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश जान्ताः Śabdaratnāvalī 7.8.3 · p. 197
क्लीबे पद्मे तथाब्जस्तु पदमेन्दु श्रीष्वसौ (?) पुमान् ।आजिः स्त्रीसमभूमौ स्यात् संग्रामाक्षेपयोरपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पद (syllable split)
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.3 · p. 220
आलिः सेतौ सखीपङ्क्त्योराशा दिगतितृष्णयोः ।आजिः समेऽपि भूभागे गोनाडीभूद्युवाक्ष्विडा ॥ ३ ॥
अनुष्टुप्

आजि as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् रणस्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः । Amarakośa 3.3.96
  • नामलिङ्गानुशासनम् संविद्स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु ॥ ९२ ॥ Amarakośa 3.3.92
  • नामलिङ्गानुशासनम् सङ्गरमुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः । Amarakośa 3.3.316
  • धरणिकोश संविद्संविदाजौ प्रतिज्ञायामाचारज्ञाननामसु । संभाषणे क्रियाकारे संकेते तोषणेऽपि च ॥ Dharaṇikośa 17.3.5
  • कोषकल्पतरु तीक्ष्णवीणावादनसाधने च लगुडे गेहैकदेशे तथा कोणः कोकनदच्छवावरलुके रक्ते हयेऽग्नौ नदे । शोणोऽथार्भकगर्भयोर्नरि भवेद्भ्रूणस्तु गर्भेऽस्त्रियां तीक्ष्णं लोहविषाजिमुष्किमरके तिग्मे तु भेद्यानुगम् ॥ ७ ॥ Koṣakalpataru 6.15.7
  • कोषकल्पतरु विमर्दउक्तं कोकनदं * [7a]शोणकुमुदे रक्ते तथाम्भोरुहे- ऽथाभिज्ञेऽपि विशारदो निगदितो धृष्टे तथा वाच्यवत् । ना मन्थाजिविमर्दयोर्निगदितोऽत्यन्तं तु घृष्टे भवे- न्नाट्योक्तावपि नायकप्रियसखे ना पीठमर्दो मतः ॥ ४५ ॥ Koṣakalpataru 6.19.45
  • कोषकल्पतरु निकायआचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोः भाषायां कृतिकारके निगदितः सङ्केतवाची तथा । काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजे स्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥ Koṣakalpataru 6.26.62
  • कोषकल्पतरु समुदयपरिधायोऽम्भःस्थाने परिच्छदे स्यान्नितम्बे च । समुदय आजौ वृन्दे समुपक्रमवाचकश्चापि । प्रतिश्रयस्त्वाश्रयसंसदोः स्या- त्समुच्छ्रयस्तूच्छ्रयके विरोधे । हिरण्मयः स्यादिह लोकधातौ विशेष्यवद्धेममये प्रदिष्टः ॥ ८२ ॥ Koṣakalpataru 6.26.82
  • कोषकल्पतरु अभिमारचन्द्रे तथा पक्षचरोऽथ लोके चराचरं जङ्गम इङ्गिते च । स्वसैन्यभीतावभिमार आजौ वधेऽपि तादृक् प्रथितः प्रवीणैः ॥ ९३ ॥ Koṣakalpataru 6.27.93
  • नानार्थार्णवसंक्षेप काष्ठाआदित्ये परमावस्थोत्कर्षयोराजिसंज्ञिनः । समभूमिप्रदेशस्याप्यन्ते भूम्नि तु वारिणि ॥ १८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.186
  • नानार्थार्णवसंक्षेप उत्थानहर्षमुस्तकयोराजावङ्गणे चोद्यमेऽपि च । उद्यानं सङ्ग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 3.3.15
  • शब्दरत्नावली अङ्कअर्क्कः स्फटिकसूर्यार्कपर्णतार्म्रेन्द्रसूरिषु । अङ्कः परिच्छेदे रेखाचित्राजिभूषणेष्वपि ॥ Śabdaratnāvalī 7.1.2
  • शब्दरत्नावली तीक्ष्णक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली कलिकलं शुक्रेऽन्यलिङ्गं स्यादजीर्णे मधुरध्वनौ । कलिः कलहशूराजिकलिकायुगभित्सु च ॥ Śabdaratnāvalī 7.28.5