सीमा
sīmāस्त्री · fem.In 16 kośas: 17 synonym verses, 8 as a nānārtha head word, 12 as a meaning of another word.
पाटकस्तु तदर्धे स्यादाघाटस्तु घटोऽवधिः ।अन्तोऽवसानं सीमा च मर्यादापि च सीमनि ॥ ९६२ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
ग्रामान्तिकमुपशल्यं पर्यन्तः परिसरः कटः प्रोक्तः ।अवधिर्मर्यादा स्यादाघाटः सीम सीमा च ॥ २५९ ॥
आर्या
genderस्त्रीfem.
निःश्रेणिरपि निःश्रेणी पल्लिः पल्ली च दृश्यते ।सीमाबन्ता तथा नान्ता नगोह्यः स्याद्दृषत् दृशत् ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
अन्तोवसानं स्त्री सीमा मर्यादापि च सीमनि ।ग्रामसीमा तूपशल्यं ना कठः कण्ठकश्च सः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् ।अपराधोप्यलीको स्त्री स्यात् क्लीबे विप्रियागसी ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रकरी चत्वरमही ग्रामेया त्रिषु तद्धिता ।ग्रामेयकस्तु कथितो ग्रामीणो ग्राम्य इत्यपि ॥दाक्षीग्रामीय उदितो यो दाक्षीग्रामसंभवः ।एकग्रामीयमेवं स्यात्समूहे ग्रामता स्त्रियाम् ॥ग्रामान्त उपशल्यं स्यादत्र सीमेयनादिते (?) ।अवधिर्घट आघाटः सीमा स्त्री सीम पुं सिमः ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
भम्भा हम्भा वलभिर्भा रम्भा भीः ककुप्शोभा ।भेक्यां पुनर्नवायां वर्षाभूर्यामि-सीमे च ॥ ६१ ॥
metre not recognised
genderस्त्रीfem.
ग्रामो निवसथश्चापि तथा संवसथः स्मृतः ।तदर्धे पाटकः प्रोक्तः सीमाघाटो घटोऽवधिः ॥ २४९ ॥
अनुष्टुप्
genderस्त्रीfem.
रम्पा पम्पा सभा हम्भा भम्भा कम्बा रुमापि च ।सीमा पामा तथा चित्या[4]पद्याछाये ज्यया सह ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
सीमा शीमा च नामानि मन्यते पण्डितो जनः ।ख्याता ग्रामस्य मर्यादा ग्रामसीमा जनैः सदा ॥ १६४१ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ संवसथग्रामौ तथावसथ इत्यपि ।वास्त्वस्त्री वेश्मभूर्वाटी वाटिका गृहपोतकः ॥ग्रामान्त उपशल्यञ्च द्वयं ग्रामसमीपके ।द्वे स्त्रियौ सीमसीमे च ग्राम्यावधिनिश्चिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कोषः कोषकं मुष्काण्डवृषणा अण्डकोषकः ।सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
genderस्त्रीfem.
मर्यादा घट आघाटः स्थविः स्थिविश्च सीमया ।सीमः सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः ॥ १८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable); pāda 3, syllable 6 षु (wrong syllable)
genderस्त्रीfem.
ग्रामेयकाश्च ग्रामीणा ग्राम्याश्च ग्रामवासिनः ।सीमसीमे स्त्रियौ पुंसि त्वाघाटोऽवधिरित्युभौ ॥ ३९७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रशस्ता वास्तुभूमिर्या प्रवीरा नन्दिनी च सा ।सीमा तु सीमा मर्यादा ग्रामसीमोपशल्यकम् ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
समा तु वर्षे वृषणे तु सीमास्त्री ब्रह्मशक्तावपि फञ्जिकायाम् ।ब्राह्मी च शाकेऽपि गिरां च देव्यांघाटे स्थितौ क्षेत्रकचेलयोश्च ।क्षुमातसीनालिकयोश्च नाम्निपरत्विषि स्यादथ कान्तिकीर्त्त्योः ॥ ७७ ॥
उपजातिःtwo metres in one verse
सन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः ।सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥
अनुष्टुप्
meanings
सीमा as a meaning in nānārtha verses
- धरणिकोश वेलावेला काले च सीमायां सिन्धोस्तीरविकारयोः । अक्लिष्टमरणे राग ईश्वरस्य च भोजने ॥ Dharaṇikośa 27.3.10
- धरणिकोश आङ्अ स्वल्पार्थेऽप्यभावे च विष्णावीशे त्वनव्ययम् । आङितीषदभिव्याप्तिसीमार्थे धातुयोगजे ॥ Dharaṇikośa 34.1.1
- नानार्थार्णवसंक्षेप लेखावैजयन्त्यां शाश्वतस्तु राज्यां वररुचिः पुनः । सीमायामपि लेख्यं तु क्ली पत्त्रे लिखिताक्षरे ॥ ११४४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1144
- नानार्थार्णवसंक्षेप मर्यादामञ्जूषावाक् तु पेडायां पुरे च कथिता बुधैः । मर्यादा तु व्यवस्थायां सीमायां च प्रकीर्तिता ॥ ६७ ॥ Nānārthārṇavasaṃkṣepa 3.1.67
- परमानन्दीयनाममाला आङ्ईषदर्थक्रियायोगसीमाभिव्याप्तिषूक्त आङ् । इः कामे कल्मषे चापि निपातः खेदकुब्वचोः ॥ ५ ॥ Paramānandīyanāmamālā 1.5
- परमानन्दीयनाममाला अवधिसीमावधानयोश्चाथारुणो भास्कररक्तयोः । सूर्यसारथिनिःशब्दकपिलार्थेष्वथारुणा ॥ ३० ॥ Paramānandīyanāmamālā 5.1.30
- शब्दरत्नावली स्थितिस्थितिर्मर्यादावसानसीमास्थानेषु च स्त्रियाम् । सीता लाङ्गलपद्धत्यां जानकीगङ्गयोरपि ॥ Śabdaratnāvalī 7.16.65
- शब्दरत्नावली वेलावेला स्त्री कालसीमाब्धिकूलेष्वीश्वरभोजने । भल्लः स्यात्पुंसि भल्लुके भल्लातकास्त्रयोर्द्वयोः ॥ Śabdaratnāvalī 7.28.29
- शब्दरत्नावली आङ्आङ् क्रियायोगसीमेषदर्थाभिव्याप्तिषु स्मृतम् ॥ Śabdaratnāvalī 8.1.17
- शब्दरत्नाकर काष्ठाकक्ष्या काञ्च्यां वरत्रायां कच्छवेश्मप्रकोष्ठयोः । काष्ठोत्कर्षो हरित् सीमा कान्तिः शोभाभिकामयोः ॥ १९०१ ॥ Śabdaratnākara 4.1.1901
- त्रिकाण्डशेष अणित्रिष्वारक्ते व्याकुलेऽथ सूक्ष्मे व्रीह्यन्तरेऽप्यणु । कीलकाग्र्याश्रिसीमासु स्यादाणिवदणिर्द्वयोः ॥ १२० ॥ Trikāṇḍaśeṣa 3.3.120
- त्रिकाण्डशेष अवधिखण्डे ना समभागेऽर्धमवधिः सीमकालयोः । आविद्धं प्रहतं चक्रमानद्धं वाद्यबद्धयोः ॥ २१४ ॥ Trikāṇḍaśeṣa 3.3.214