सीमन्
sīmanस्त्री · fem.In 13 kośas: 15 synonym verses, 4 as a nānārtha head word, 28 as a meaning of another word.
ग्रामान्तिकमुपशल्यं पर्यन्तः परिसरः कटः प्रोक्तः ।अवधिर्मर्यादा स्यादाघाटः सीम सीमा च ॥ २५९ ॥
आर्या
genderस्त्रीfem.
निःश्रेणिरपि निःश्रेणी पल्लिः पल्ली च दृश्यते ।सीमाबन्ता तथा नान्ता नगोह्यः स्याद्दृषत् दृशत् ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
सीमन् शरद्दृशदृक् दृशस्रक् त्वक् स्फिग्द्वार्धुरौ च नौः ।द्यौर्दिव् प्रावृट् त्विट्तृषौ दिगेषेति प्रकृतिः स्त्रियः ॥ ४६ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
प्रकरी चत्वरमही ग्रामेया त्रिषु तद्धिता ।ग्रामेयकस्तु कथितो ग्रामीणो ग्राम्य इत्यपि ॥दाक्षीग्रामीय उदितो यो दाक्षीग्रामसंभवः ।एकग्रामीयमेवं स्यात्समूहे ग्रामता स्त्रियाम् ॥ग्रामान्त उपशल्यं स्यादत्र सीमेयनादिते (?) ।अवधिर्घट आघाटः सीमा स्त्री सीम पुं सिमः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
द्रुवयं भयं त्रिसंध्यंकिसलय-शयनीय-साय-खेयानि ।********इन्द्रिय-धान्ये लवङ्गके दिव्यम् ।धर्मं दानादिकेऽध्यात्मं सीम स्यादुपशल्यके ।अनुमत्यां तथा कामं पद्मं च गजबिन्दुषु ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
छर्दि[235a]श्च भसदपि सीमग्रामान्ते रसनया रशना ।आच्छोदनं च कल्पंजम्बूफलेऽलाबु तुम्बशुम्बे च ॥ ८२ ॥
metre not recognised
genderस्त्रीक्लीf. n.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
समुद्रो वारिराशिश्च सरस्वान् सागरोऽर्णवः ।सीमोपकण्ठं तीरञ्च पारं रोधोऽवधिस्तटम् ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
नीवृद्भेदे तु पुंभूम्नि सिन्धवो द्वे तु कुञ्जरे ।क्ली तु सैन्धवसंज्ञे स्याल्लवणे सीमवाक् तु ना ॥ १५२२ ॥
अनुष्टुप्
genderपुंmasc.
अथ संवसथग्रामौ तथावसथ इत्यपि ।वास्त्वस्त्री वेश्मभूर्वाटी वाटिका गृहपोतकः ॥ग्रामान्त उपशल्यञ्च द्वयं ग्रामसमीपके ।द्वे स्त्रियौ सीमसीमे च ग्राम्यावधिनिश्चिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कोषः कोषकं मुष्काण्डवृषणा अण्डकोषकः ।सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
genderपुंmasc.
मर्यादा घट आघाटः स्थविः स्थिविश्च सीमया ।सीमः सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः ॥ १८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable); pāda 3, syllable 6 षु (wrong syllable)
genderविadj.
ग्रामेयकाश्च ग्रामीणा ग्राम्याश्च ग्रामवासिनः ।सीमसीमे स्त्रियौ पुंसि त्वाघाटोऽवधिरित्युभौ ॥ ३९७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रशस्ता वास्तुभूमिर्या प्रवीरा नन्दिनी च सा ।सीमा तु सीमा मर्यादा ग्रामसीमोपशल्यकम् ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षेत्रस्य मर्यादायां च ग्रामगोचरभुव्यपि ।अश्वे तु द्वे पुमान् सीर आदित्ये लाङ्गलेऽपि च ॥ १५२३ ॥
अनुष्टुप्
doubtful
सन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः ।सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥
अनुष्टुप्
meaningsकूल
सीमन् as a meaning in nānārtha verses
- धरणिकोश मर्यादाकामदा घेनुका चापि मर्यादा सीमनि स्थितौ । धनदो दातरि श्रीदे विशदं स्पष्टशुक्लयोः ॥ Dharaṇikośa 17.1.4
- धरणिकोश अवधिविवधवीवधौ भारे पर्याहारे तथाध्वनि । अवधी कालदण्डौ स्तः सीमानोऽवधयः स्मृताः ॥ Dharaṇikośa 18.2.11
- कोषकल्पतरु यावत्यावत्तावत्सीम्नि माने साकल्ये चावधारणे । वाक्यालंकरणेऽपि स्तोऽथोताप्यर्थविकल्पयोः ॥ ९० ॥ Koṣakalpataru 5.1.90
- कोषकल्पतरु रीतिसीम्नि प्रचारे त्रयकाव्यवृत्ति- भेदेष्वपि स्यात्तु[290a]रगे तु पुंसि । पाने स्त्रियां पीतिरथो हये ना स्त्रियां तु दीप्तौ प्रजनेऽशने च ॥ ५३ ॥ Koṣakalpataru 6.16.53
- कोषकल्पतरु आयतिदैर्घ्यप्रभावोद्यमवासरेषु सीम्न्युद्यमे संयमकेवले च । आगामिकाले गदितायतिः स्त्री स्यात्पद्धतिर्वर्त्मनि चावलौ च ॥ ३२ ॥ Koṣakalpataru 6.16.32
- कोषकल्पतरु मर्यादास्यात्कारण्ड इह प्लवेऽपि च तरत् सीम्नि स्थितौ वा स्त्रियां । मर्यादाप्यथ रोचना चलदृशोरुक्ता सुनन्दा तथा ॥ Koṣakalpataru 6.19.28
- कोषकल्पतरु अवधिउपसूर्यकेऽपि तद्वत्स्यादथ काले बिले सीम्नि । अवधानेऽप्यवधिर्ना ध्या[9b]ने नियमे च नीवाके ॥ ७६ ॥ Koṣakalpataru 6.20.76
- कोषकल्पतरु वेलापीठ्यां गृहाणामपि दारुबन्धे वेलाब्धितीरेऽम्बुविकारके च । अक्लिष्टमृत्यौ समये च सीम्नि बुधस्त्रियां वाचि तथा च रागे ॥ ८२ ॥ Koṣakalpataru 6.28.82
- नानार्थार्णवसंक्षेप वाटमण्डले नगरे सीम्नि भोजने वलये गृहे । त्रयी तु वाटी गेहान्तःक्लृप्ते फलफले वने ॥ १२२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1222
- नानार्थार्णवसंक्षेप वास्तुगृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1246
- नानार्थार्णवसंक्षेप अवधिविवरे सीम्नि काले चाप्यथर्वा त्वृषिभेदके । वेदभेदे च तत्रत्यमन्त्रेष्वपि तथास्य च ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 3.2.9
- नानार्थार्णवसंक्षेप निग्रहनिग्रहो भर्त्सने सीन्नि रभसो बन्धनेऽपि च । निशीथस्त्वर्धरात्रे स्यात् प्रदोषे कश्चिदब्रवीत् ॥ १२० ॥ Nānārthārṇavasaṃkṣepa 3.2.120
- शब्दरत्नावली अणिअणिराणिर्युद्धबन्धे सीम्नि चक्राङ्गकीलके । उष्णोऽशीते दक्षे च वाच्यलिङ्गः शुचौ पुमान् ॥ Śabdaratnāvalī 7.15.3
- शब्दरत्नावली भसद्प्रणादस्तारशब्दे स्यात्पुंलिङ्गः श्रवणामये । भसद्भास्करयोन्योः स्त्रीमर्यादासीम्नि संस्थितौ ॥ Śabdaratnāvalī 7.18.18
- शब्दरत्नावली अवधिअवधिः सीम्नि काले स्यात् अवधाने बिले पुमान् ॥ Śabdaratnāvalī 7.19.22
- शब्दरत्नाकर सीमपल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि । सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥ Śabdaratnākara 4.17
- शब्दरत्नाकर कोटिशिक्षायां निष्कृतौ चेष्टाचिकित्सोपाययुक्तिषु । आरम्भे कोटिरश्र्यग्रप्रकर्षावधिसीमसु ॥ १९०५ ॥ Śabdaratnākara 4.1.1905
- शब्दरत्नाकर नेमिहेम्न्युरोभूषणे कर्षे साष्टकर्षशते पले । दीनारेऽपि च निष्कोऽस्त्री नेमिः सीमाव्यवस्थयोः ॥ १९४८ ॥ Śabdaratnākara 4.1.1948
- शब्दरत्नाकर आघातभक्षणेऽन्धसि चाहार आघातः सीमघातयोः । आक्रन्दः क्रन्दने घोरसमरे निन्दनेऽपि च ॥ २०५० ॥ Śabdaratnākara 4.1.2050
- शब्दरत्नाकर आङ्आङ् ईषदर्थेऽभिविधौ सीम्नि कर्मविशेषणे । आ प्रगृह्ये स्मृतौ वाक्येऽप्यास्तु संतापकोपयोः ॥ २२५० ॥ Śabdaratnākara 5.1.2250
- त्रिकाण्डशेष मर्यादागर्वे शुक्रेऽथ माकन्द्यामलक्यां नाऽम्रपादपे । मर्यादा धारणासीम्नोर्महानादो गजेऽपि च ॥ २१० ॥ Trikāṇḍaśeṣa 3.3.210
- वैजयन्ती काष्ठाकासूर्बुद्धौ कुवाच्यस्त्रे कान्तिः शोभाभिकामयोः । काष्ठोत्कर्षे सीम्नि दिशि क्षोण्यां वासे क्षये क्षितिः ॥ ८ ॥ Vaijayantī 6.2.8
- वैजयन्ती वेलावृत्तिर्ग्रन्थाजीवयोश्च वेलाब्धिजलवर्धने । काले सीम्नि च वेणी तु केशबन्धे जलस्रुतौ ॥ ३६ ॥ Vaijayantī 6.2.36
- वैजयन्ती वास्तुवास्त्वस्त्री गृहभूपुर्योर्गृहे सीमसुरुंगयोः । वानं शुष्के गतौ व्यूतौ गन्धे वृद्धौ सुधीयमौ ॥ ८० ॥ Vaijayantī 6.5.80
- वैजयन्ती आघातआघातौ घातसीमानावाहारौ भक्षणान्धसी । आलोकौ दर्शनोद्योतावागमौ शास्त्रमागतिः ॥ ८ ॥ Vaijayantī 7.1.8
- वैजयन्ती निग्रहनिदेशावाज्ञाकथने निग्रहः सीम्नि भर्त्सने । निवहो वायुभेदेऽपि निषङ्गस्तूणसंगयोः ॥ ३४ ॥ Vaijayantī 7.1.34
- वैजयन्ती मर्यादामहिषी पशुराट्पत्न्योर्मर्यादा सीम्नि धारणे । पेटा पुरी च मञ्जूषा मनाका कामिनी गजी ॥ १९ ॥ Vaijayantī 7.2.19
- वैजयन्ती आङ्उक्ता लिंगान्विताः शब्दा निर्लिङ्गान्यव्ययान्यतः । आङीषदर्थेऽभिविधौ सीम्नि कर्मविशेषणे ॥ १ ॥ Vaijayantī 8.7.1