कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

राजि

rājiस्त्री · fem.

In 16 kośas: 19 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.78 · p. 54
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः ।धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ ॥युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.7
वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः ।
अनुष्टुप्
genderस्त्रीfem.
श्रेणिश्रेण्यौ पंक्तिपंक्त्यौ राजिराज्यौ समे मते ।रेखा लेखा भवेद्वृक्षे शालसालावुदीरितौ ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.176 · p. 152
तर्कारी वसुकः पद्मा वर्षाभूश्चैव फञ्जिका ।तण्डुलीयकचाङ्गेरीकुसुम्भराजिसर्षपाः ॥ १७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्भ (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.8 · p. 249
आली च पालिरालिश्च शरणी सरणी द्वयोः ।शरणिः सरणिः श्रेणिः स्त्रियां राजिस्तु राज्यपि ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.9 · p. 249
रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा ।तत्र पङ्क्तिः सान्तराला राजिर्हीनान्तरालका ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.35 · p. 464
स्याद्वितर्दिस्तिरीतिश्च दर्विर्नी विश्छविर्लविः ।राजिर्जाती रुचिः श्रेणी सूचिः साची खलिः खनिः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.66 · p. 468
अविराजिध्वनिशिशुकर्षूजायुयुजामपि ।हाहाहूहू नग्नहूनां गमत्पां दश्मनामपि ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 135
वीथिर्माला च विञ्जोलिर्धोरण्यावलि-वीचयः ।[19b]द्वयोः श्रेणिः पङ्क्ति-तति * * रेखालि-राजयः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.43 · p. 99
चञ्चा चर्चा सूचि-साच्यौ रुचिश्चवीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् ।कच्छा पिच्छा किं च कच्छू[श्च] राजि-र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्त्व (wrong syllable)
genderस्त्रीfem.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.59 · p. 218
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.88 · p. 43
राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च घोरिणी ।सर्वं समस्तं सकलं समग्रं निखिलाखिले ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2585 · p. 417
आलिश्चाऽऽली ततिः पङ्क्तिः श्रेणी श्रेणिश्च धोरणी ।वीथी वीथिस्तथा राजिरावलिरावली पुनः ॥ २५८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.5 · p. 57
आली पाल्यावली श्रेणिः वीथिः स्याद्वीथिकापि च ।राजी राजिस्तथा रेखा लेखा निच्छिद्रपंक्तिषु ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.30 · p. 251
पङ्कौ वीथी वीथिरालिरावलिरावली मता ।राजि-राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता ॥ ३० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable); pāda 3, syllable 5 रे (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.148 · p. 170
स्थासको हस्तबिंबः स्यात् पत्तिच्छेदास्तु राजयः ।चित्रं तमालपत्रं क्ली तिलकोऽस्त्री विशेषकम् ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.90 · p. 180
रसज्ञा रसना जिह्वा राजिः सूनाऽप्यधः स्थिता ।गण्डो गल्लः कपोलश्च तत्परा तु हनुर्न षण् ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ जान्ताः Koṣakalpataru 6.7.26 · p. 174
वक्त्रानताङ्गे त्रिषु कुब्जमाहु-र्वृक्षप्रभेदे निगदन्ति पुंसि ।आजिः समोर्वीक्षणसंगरेषुराजिस्तु रेखाततिवाचिका स्त्री ।लाजास्तु भृष्टेष्वपि शा[268a]लिषु स्युःपुंभूम्नि चार्द्रेष्वपि तन्दुलेषु ॥ २६ ॥
इन्द्रवज्राmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.84 · p. 17
भेषजे चापि धेनौ च राठा सुह्मेषु नीवृति ।शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.85 · p. 17
पङ्क्तौ च राजसर्पे च लेखायां च करादिषु ।रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ॥ ८५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश जान्ताः Śabdaratnāvalī 7.8.14 · p. 198
रजः परागे रेणौ च गुणभेदे तथार्त्तवे ।रज्जुः स्त्रियां गुणे वैण्यां स्त्रीराजिः पंक्तिलेखयोः ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.30 · p. 222
राजिः पङ्क्तौ राजसर्पे क्षेत्रेऽधो रसनस्य च ।रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ॥ ३० ॥
अनुष्टुप्

राजि as a meaning in nānārtha verses