कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वलभी

valabhīस्त्री · fem.

In 13 kośas: 16 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1011 · p. 39
वलभीछदिराधारो नागदन्तास्तु दन्तकाः ॥ १०११ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.23
गोपानसी तु वलभी छादने वक्रदारुणि ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.303 · p. 36
आच्छादनं स्याद्वलभी गृहाणां,गोपानसी दारु च वक्रसंस्थम् ।नीव्रं वलीकं पटलान्तमाहुः,कपोतपाली च विटङ्कसंज्ञा ॥ ३०३ ॥
उपजातिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.63 · p. 15
उपकार्याथ सौधोऽस्त्री सद्म धामापि राजतः ।चन्द्रशाला तु वलभिर्वलभी चन्द्रशालिका ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.74 · p. 16
पुंसिच्छदिः स्त्री पटलं त्रिषु स्याद्वलभी स्त्रियाम् ।गोपानसी स्यादाधारच्छादने वक्रदारुणि ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.39 · p. 124
अन्नकोष्ठः कुशूलः स्याद्वलतो(?)ऽथोपकारिका ।उपकार्याथ वलभी गृहोपरि कुटी मता ॥पूर्वेषां वसतिस्थानं भवेदभिजनः पुमा[10b]न् ।आत्मना वसतिस्थानं निवासः परिकीर्त्यते ॥मण्डपोऽस्त्री जनस्थानमथ वातायनोऽस्त्रियाम् ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.48 · p. 125
परवालं(?) चाथ न स्त्री वलीको नीध्रमन्तिमे ।छदिप्रान्तेऽथ वलभी स्त्रियां स्याच्छदिराश्रयः ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.49 · p. 125
छादिषेयं त्रिषु भवेद्यद्धितं छदिषे भवेत् ।गोपानसी तु वलभी छादनं वक्रदारु यत् ।कपोतपालिकायां तु विटङ्को न स्त्रियां भवेत् ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.287 · p. 40
गोपानसी च वलभी वक्रकाष्ठावृते पदे ।उम्बरो देहली चापि गृहावगृहणी स्रियाम् ॥ २८७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.59 · p. 218
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.201 · p. 282
वलभी वलभिश्चापि छदिराधार उच्यते ।
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.43 · p. 53
चूडा चूला चन्द्रशाला वडभी वलभिस्तथा ।कूटागारञ्च वलभी गृहाद्युपरि यद्गृहम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.856 · p. 108
कुट्टिमोऽस्त्री निबद्धा भूरङ्गणं चत्वराजिरे ।वलभी छादनं वक्रदारु गोपानसी स्त्रियाम् ॥ ८५६ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पुरवर्गः Trikāṇḍaśeṣa 2.2.5 · p. 34
वासागारं भोगगृहं कन्यापत्न्याटनिष्कुटाः ।देवीगृहं तु वलभी लयनं सौगतालयः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.31 · p. 161
पिच्छन्दका राजधाम्नां सन्निवेशो निकर्षणम् ।कूटागारं तु वलभी निर्यूहो मत्तवारणम् ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.39 · p. 162
गोपानसी तु वलभी छादने वक्रदारुणि ।वेश्मस्थूणा गृहस्थूणमुल्बस्थूणा तु पादिका ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.

वलभी as a meaning in nānārtha verses

  • धरणिकोश चूडाचोडो देशविशेषः स्याच्चोडः प्रावरणान्तरम् । चूडा बाहुविभूषायां चूडे तु वलभीशिखे ॥ Dharaṇikośa 12.1.5
  • कोषकल्पतरु चूडापात्रे वाजिविभूषणे च तटिनीपात्रेऽथ गोभूबुध- स्त्रीवाणीमखपात्रभित्स्वपि शिरासृष्ट्योरिडेले मते । क्रीडा खेलनहेलयोरथ भवेच्चूडा वलभ्यां शिखा- दोर्भूषास्वथ मौलिमाल्यसरलानुक्रोशमर्दार्तिषु ॥ ८० ॥ Koṣakalpataru 6.12.80
  • नानार्थार्णवसंक्षेप चूडारोगभेदे पशूनां च लक्षणीयेऽथ मूर्धनि । चूडा शिखावलभ्योश्च चूलिस्तु धनुषोऽटनौ ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.1.35