कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पिनद्ध

pinaddhaवि · adj.

In 12 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.766 · p. 31
परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् ।अपिनद्धः पिनद्धोऽथ संनद्धो व्यूढकङ्कटः ॥ ७६५ ॥दंशितो वर्मितः सज्जः संनाहो वर्म कङ्कटः ।जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥ ७६६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.112
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.747 · p. 86
आहितं निहितं न्यस्तमारोपितमिति स्मृतम् ।बद्धं पिनद्धमामुक्तमपिनद्धं च कथ्यते ॥ ७४७ ॥
अनुष्टुप्
genderविadj.
अपिनद्धः पिनद्धः स्यात् समौ जङ्घालजङ्घिलौ ।पादातिः स्यात् पदातिश्च पादातोऽपि पदातिकः ॥ २०९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.231 · p. 114
संनद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ।अपिनद्धः पिनद्धश्च दंशितश्चाप्यमी त्रिषु ॥ २३१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.58 · p. 423
वंशादिकं तु सुषिरमानद्धं मुरजादिकम् ।अवनद्धं तदेव स्यात्पिनद्धमपिनद्धवत् ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 262
प्रष्ठाग्रतःसरावग्रेसर उक्तः प्रतिष्कशः ।सव्यसाची तु वामेन बाहुनापि शरं क्षिपन् ।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ९७ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 176 · p. 85
पाशनीतः सितो बद्धः सन्धानीतो नियन्त्रितः ।नियामितः शृङ्खलितः पिनद्धः पाशितो रिपुः ॥ १७६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1248 · p. 196
आमुक्तः परिमुक्तश्च पिनद्धोऽपिनद्ध इति ।भवेत् कञ्चुकधारी यः संभवेत् सैनिको जनः ॥ १२४८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.291 · p. 130
सन्नाहो वर्मजगरस्तथा कङ्कटकोऽपि च ।अपिनद्धः पिनद्धः स्यादामुक्तः प्रतिमुक्तवत् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.268 · p. 210
सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् ।स्यादामुक्तो पिनद्धश्च पिनद्धे कवचे पुनः ॥ २६८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1393 · p. 169
आमुक्तः प्रतिमुक्तः संदानितपिनद्धसितबद्धाः ।पाशितकीलितसंयतसंदितमूताश्च वाच्यलिङ्गाः स्युः ॥ १३९३ ॥
उद्गीतिःmetre not read in every line
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.142 · p. 115
दंशिते स्युः कवचितसज्जसन्नद्धवर्मिताः ।आबद्धः पुनरामुक्तः प्रतिमुक्तः पिनद्धवत् ॥ १४२ ॥
अनुष्टुप्
genderविadj.