कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुष्करिन्

puṣkarinपुं · masc.

In 7 kośas: 9 synonym verses.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.174 · p. 7
खद्योते तु कीटमणिज्योतिर्माली तमोमणिः ।परार्वुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे ॥ १७२ ॥पेचकी पुष्करी पद्मी पेचिलः सूचिकाधरः ।विलोलजिह्वोऽन्तःस्वेदो महाकायो महामदः ॥ १७३ ॥शूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः ।असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ १७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.145 · p. 105
पिण्डपादः पुष्करी स्याच्छुण्डारी कज इत्यपि ।विलोमरसनार्थः स्याद्द्वेर्दन्तार्थविषाणकः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.146 · p. 105
द्वयोः करेणुर्वेतण्डः पेचकी पुष्करी जटी ।जलाकाङ्क्षो महाकायोऽप्रस्वेदः सूचिकाधरः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.284 · p. 120
शिवंकरो मनुज्येष्ठः कराली च विशाग्रजः ।गाढमुष्टिस्तीव्रमार्गः पुष्करी कोशवानपि ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.83 · p. 250
हस्तीभो द्विपिबो द्विपो द्विरदनो नागः करी [111b] पुष्करीपद्मी पेचकि-पीलु-कुम्भि-करटि-स्तम्बेरमानेकपाः ।मातङ्गश्च मतङ्गजः सुरगजो दन्ती च दन्तावलोवेतण्डश्च मितंगमोऽपि जलकाङ्क्षः सिन्धुरश्चन्दिरः ॥ ८३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 89 · p. 45
शुण्डालः सामजो नागो मातङ्गः पुष्करी द्विपः ।करेणुः सिन्धुरः तेषु यन्ता याता निषाद्यपि ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2200 · p. 361
द्विपश्चाऽनेकपः पद्मी पुष्करी पेचकी कपिः ।पेचिलः सूर्पकर्णश्च करेणुः सूचिकाधरः ॥ २२०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.221 · p. 126
पीलुर्दन्ताबलो दन्ती द्विरदः कुञ्जरः करी ।वराङ्गः पुष्करी नागो जलकाङ्क्षः महामृगः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.34 · p. 66
विलोमजिह्वान्तःस्वेदापण्डपादलतालकाः ।वराङ्गः पुष्करी शूर्पकर्णसामजपेचिलाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.