सामज
sāmajaपुं · masc.In 11 kośas: 9 synonym verses, 5 as a nānārtha head word.
मतङ्गजो मतङ्गः स्यात्कुम्भी दन्ती करी दरी ।वेतण्डो भिन्नगण्डस्तु सामजः सिन्धुरः सुरः ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गो राजिलः पीलुर्जलकान्तो महामृगः ।मतङ्गः सामजः कुम्भी कुञ्जरोऽनेकपो द्विपः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
दीर्घप्राण-विषाणि-वारण-महादाना द्विपायी जटीस्याच्छूर्पश्रवणो विलोमरसनश्चोच्चैर्मृगः सामजः ॥ ८४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शुण्डालः सामजो नागो मातङ्गः पुष्करी द्विपः ।करेणुः सिन्धुरः तेषु यन्ता याता निषाद्यपि ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
द्विरदोऽनेकपाः स्तम्बेरमः सामज इत्यपि ।करेणुर्हस्तिनी धेनुका वशापि निगद्यते ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
गजे स्तम्बेरमः पद्मी कुम्भी सिन्धुरसामजौ ।मदोत्कटे मदकरो यूथनाथे तु यूथपः ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्वेरमः शूर्पकर्णः सिन्धुरः सामजः कटी ।अन्तःस्वेद इभः पद्मी वारणः दीर्घमारुतः ॥
अनुष्टुप्
genderपुंmasc.
विलोमजिह्वान्तःस्वेदापण्डपादलतालकाः ।वराङ्गः पुष्करी शूर्पकर्णसामजपेचिलाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
दन्तावलो महाकायो वारणः कुंजरोऽसुरः ।महामृगः शूर्पकर्णः सामजः सिंधुरः कपिः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
सहस्रेण च निर्वृत्त एकाहक्रतुषु त्वयम् ।चतुर्षु पुंसि साहस्रः सामजस्तु द्वयोर्गजे ॥ १९४८ ॥
अनुष्टुप्
meaningsगज
त्रि तु सामसमुद्भूते सावनस्तु पुमानयम् ।संवत्सरविशेषे स्यात् षष्टित्रिशतवासरे ॥ १९४९ ॥
अनुष्टुप्
meaningsसामसमुद्भूत
समजः पशुबृन्दे स्याद् विपिने मूर्खसंहतौ ।सामजः सामसम्भूते भवेन्मत्तमतङ्गजे ॥
अनुष्टुप्